________________ : 158 : प्रकाशकृतां प्रशस्तिः - -- मृगाङ्कतः किन्न मृगेन्द्रलाञ्च्छनो, विराजते ध्वस्तसमस्तलाञ्च्छनः॥ देहप्रभापूरितविश्वमण्डलः, शुद्धात्मरूपाद्विनतेन्द्रमण्डलः // 1 // वीरप्रभोः पट्टपरम्पराब्धेः, प्रबोधदायी शरदः शशाङ्कः / / सूरीशसम्राड् बुधचक्रवर्ती, श्रीनेमिसरिप्रवरः श्रिये स्तात् // 2 // तदीयपट्टाम्बरभानुकल्पः, शास्त्रप्रबोधैकविशारदः सन् // पीयूषपाणिः कविरत्नरत्नो, जीयात् स सूरिविजयामृताख्यः // 3 // तस्यैकसेवानिलयो विनेयो, भवानुभावेन न मोहितो यः // हितैकदृष्ट्या स्वसुतेन साकं, चारित्र्यसाम्राज्यमुरीचकार // 4 // पुण्याभिधस्यास्य मुनीश्वरस्य, पादाब्जभृङ्गेण धुरन्धरेण // विवृत्तिरेषा विहिता हिताय, श्रीइन्दुदूतस्य प्रकाशनाम्नी // 5 // आचार्यवयैर्विजयोदयाख्य-सूरीश्वरैः पूजितपूज्यपूज्यैः / / समस्तविद्याविबुधैरकम्पा-नुकम्पधुर्लघु शोधितेयम् // 6 // श्रीवैक्रमीये व्यधिके द्विसङ्ख्य-सहस्रवर्षे मृगशीर्षमासे / / इन्दोः सुतस्याहि सुपूर्णिमायां, पूर्णा विवृत्तिस्तनुतात् प्रकाशम् // 7 // विना प्रकाशं तमसि स्थितस्य, श्रीइन्दुदूतस्य रसैर्भूतस्य // प्रकाशरूपा रुचिरा विवृत्ति-रापुष्पदन्तौ जयताज्जगत्याम् // 8 //