________________ : 154 : 'सर्वादेः पथ्यङ्ग-' / 7 / 1 / 94 / इति ईनः, पुलकोद्भेदम्-रोमाश्वम् , आविष्करोति-प्रकटयति / / 127 // (128) श्रीमतां स्मरणमात्रेण मदीयं मनःस्थैर्य्य नानुभवतीत्याह तुष्यतीतितुष्यत्युल्ला-सयतिकरणा-न्युल्लसन्त्येव भूयोभूयो गच्छ-त्युपगुरुपदं गाढमुत्कण्ठते च / बाष्पक्लिन्ने सृजति नयने गद्गदान् कण्ठनादानेतच्चेतः प्रणयरसत-श्चेष्टते नेकधा मे // 128 / / (अन्वयः ) मे एतच्चेतः प्रणयरसतः नेकधा चेष्टते (तथाहि ) तुष्यति उल्लसन्ति करणानि उल्लासयति एव भूयोभूयः उपगुरुपदं गच्छति च गाढम् उत्कंण्ठते नयने बाष्पक्लिन्ने कण्ठनादान् गद्गदान् सृजति // 128 // (प्रकाशः) मे-मदीयम् , एतच्चेतः-मानसमिदम् , प्रणयरसत:-प्रेमपीयूषप्रकर्षतः, नैकधा-अनेकप्रकारेण, चेष्टते-यतते, तथाहि तुष्यति-हर्षते, उल्लसन्ति करणानि-उल्लासवन्तीन्द्रियाणि, उल्लासत्येव-खलु आहादयति, भूयोभूयः-वारंवारम् , उपगुरुपदम्-गुरुवरचरणान्तिकम् , गच्छति-प्रयाति, च-पुनः, गाढम्-बाढम् , अत्यन्तमिति यावत्, उत्कण्ठते-उत्सुकं भवति, नयने-चक्षुषी, बाष्पक्लिन्ने-अश्रुपरिपूर्णे, कण्ठनादान्-ग्रीवानभागनिःस्वानान् , गद्गदान्-हर्षशोकादिना सकफेन वायुना यथास्थानानुच्चारणाव्यक्तास्फुटरूपान्, सृजति-सम्पादयति // 128 // ढम्बाढम् / अव्यक्किने-अशुपारदिना सकफेन वा