________________ : 153 : जया-तदाख्याख्यातः, पूज्योपाध्यायप्रवरश्रीविनयविजयगणी, द्वादशावर्तभाजा--यस्मिन् वन्दने आवर्तानां द्वादशकं भवति तेन द्वादशावर्ताभिधेन, महता वन्दनेन-गुरुणा प्रणामविधिना, अभिवन्द्य--प्रणम्य, विज्ञप्तिम्-अभ्यर्थनाम् , व्याहरति--विनिवेदयति // 126 // (127) पूज्यपादानां पूर्वपरिचयं तत्कालीनवार्ताञ्च संस्मृत्य स्वानन्दमाविष्करोति यच्छ्रीति यच्छ्रीपूज्य-क्रमयुगमिला-दुर्गमध्ये नतोऽहं, प्रागासं नो-पकृतिमिव त-द्विस्मरामि क्षणार्धम् // श्रीतातानां यदुरुकृपया भाषणं स्मर्यमाणं, सर्वाङ्गीणं सपदि पुलको-ड्रेदमाविष्करोति // 127 // ( अन्वयः) प्राक् इलादुर्गमध्ये अहं यत् श्रीपूज्यक्रमयुगं नतः आसं तत् उपकृतिम् इव क्षणार्धं न विस्मरामि, श्रीतातानाम् उरुकृपया यत् भाषणं (तत्) स्मर्यमाणं सपदि सर्वाङ्गीणं पुलकोद्भेदम् आविष्करोति // 127 // .. (प्रकाशः) प्राक्-पुरा, इलादुर्गमध्ये-इडरगढेतिप्रसिद्धपुरे, अहम्-अयं जनः, यत् श्रीपूज्यक्रमयुगम्-पूज्यपादपद्मयमलम् , नतः आसम्-प्रणतोऽभवम् , तदुपकृतिमिव-उपकारवत् तत् , क्षणार्धम्-निमेषार्धमपि, न विस्मरामि-नैव विस्मृति नयामि, श्रीतातानाम्-पूज्यश्रीणाम् , उरुकृपया-महानुकम्पया, यत् भाषणम्-यत्सदुपदेशनम् , स्मर्यमाणं तत्-स्मृतिपथमागच्छत् तत् , सपदि-साम्प्रतम् , सर्वाङ्गीणम्-सम्पूर्णशरीरव्यापि,