________________ पादः ] . दोधकवृत्तिः . निजधनं दातुं दुष्करमस्ति, तपः कर्तुं मनो न प्रतिभाति, एवं दानं तपश्च विना सुखं भोक्तुं मनः, परं भोक्तुं न यातीत्यर्थः // 157 // 441 जेप्पि चएप्पिणु सयल धर, लेविणु तवु पालेवि / विणु सन्ते तित्थेसरेण, को सक्कइ भुवणेवि // 158 // शान्तिनाथतीर्थकरेण विना सकलां धरां जेतुं त्यक्तुं च तपो लातुं पालयितुं कः शक्नोतीत्यर्थः / / 158 / / 442 गंप्पिणु वाणारसिहि नर, अह उज्जेणिहिं गंप्पि / ... मुआ परावहिं परम-पउ, दिव्वन्तरई म जम्पि // 159 / / ... ये नरा वाराणस्यां गत्वाऽथ उज्जयिन्यां गत्वा मृताः, ते परमं पदं प्राप्नुवन्ति, दिव्यान्तराणि तीर्थान्तराणि मा कथय // 159 // 442 गंग गमेप्पिणु जो मुअइ, जो सिव-तित्थ गमेप्पि / कीलदि तिदसावास गउ, सो जम-लोउ जिणेप्पि // 160 // यो गङ्गां गत्वा मृतः, यश्च शीवतीर्थं गत्वा मृतः, स त्रिदशावासं देवलोकं गतः सन् क्रीडति, किं कृत्वा ? यमलोकं मरणं जित्वेत्यर्थः॥ 160 // 443 हत्थिमारणउ, लोउ बोल्लणउ, पडहु वज्जणउ, सुणउ भसणउ / हस्ती मारणशीलः, लोकः कथनशीलः, पटही वादन. शीलः, श्वा भषणशीलः॥