________________ प्राकृतव्याकरणस्य [ चतुर्थः 353 कमलई मेल्लवि अलि-उलई करि-गण्डाई महन्ति / असुलहमेच्छण जाहं भलि, ते णवि दूर गणन्ति // 29 // अलिकुलानि कमलानि मुक्त्वा करिगण्डानि काङक्षन्ति। येषामसुलभं-दुर्लभमिषितु भलि' कदाग्रहो भवति ते दूरे नापि गणयन्तीत्यर्थः / / 29 // 354 अन्नु जु तुच्छउं तहे धणहे० (दो० 25) / . 'तहे' तस्याः “धणहे' स्त्रिय अन्यत् 'जु' यत् 'तुच्छउं' तुच्छकं अस्ति / / . . , . 354 भग्ग देक्खिवि निमय बलु, बलु पसरिअउ परस्सु / उम्मिल्लइ ससि-रेह जिवँ, करि करवालु पियस्सु / / 30 / / _ 'भग्गउं' हे सखीति गम्यते, यथा द्वितीयादितिथौ शशिरेखा चन्द्ररेखा प्रकटी भवति, तथा प्रियस्य करे हस्ते करवालः खङ्ग 'उम्मिल्लई' शोभते। किं कृत्वा ? दृष्ट्वा निजबलं निजसैन्यं भग्नकं, पुनः परस्य शत्रोः 'बलु' सैन्यं प्रसृतकं विस्तृतकमित्यर्थः / / 355 जहां होन्तउ आगदो / तहां होन्तउ आगदो। कहां होन्तउ आगदो / ___ 'जहां' यस्मात् 'होन्तउ' भवन् 'आगदो' आगतः / 'तहां' तस्मात् भवन् आगतः / 'कहां' कस्मात् भवन् आगतः / 356 जइ तहो तुट्टउ नेहडा, मई सहुं नवि तिल-तार / तं किहे वङ केहि लोअणे हिं, जोइज्जउं सय-वार / / 31 / / हे तिलतार ! तिलवत्स्निग्धा तारा-कनिनिका यस्य स, तस्य सम्बोधनम्, यदि तव स्नेहो मया सह नापि त्रुटितः, तत् तस्मादहं त्वया वक्राभ्यां लोचनाभ्यां शतवारं विलोक्यत इत्यर्थः // 31 //