________________ 242 - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 'अस्तेः सः सादौ प्रत्यये लुक् स्यात्, एति तु सो हः' / असि, व्यतिसे, व्यतिहे, भावयामाहे // 73 // दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः / 4 / 3 / 74 // एभ्यः परस्य ‘सको दन्त्यादी आत्मनेपदे लुग् वा' स्यात् / अदुग्ध, अधुक्षत; अदिग्ध, अधिक्षत; अलीढाः, अलिक्षथाः; न्यगुहृहि, न्यघुक्षावहि / दन्त्य इति किम् ? अधुक्षामहि // 7 // स्वरेऽतः / 4375 // 'सकोऽस्य स्वरादौ प्रत्यये लुक्, स्यात् / अधुक्षाताम् // 75 // दरिद्रोऽद्यतन्यां वा / 4 / 3 / 76 // 'दरिद्रोऽद्यतन्यां विषये लुग् वा' स्यात् / अदरिद्रीत्, अदरिद्रासीत् // 7 // अशित्यस्सन-णक-णकानटि / 4 / 3177 // सादिसन्नादिवर्जे अशिति विषये 'दरिद्रो लुक्' स्यात् / दुर्दरिद्रम् / अशितीति किम् ? दरिद्राति / सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायकः, दरिद्राणम् // 77 // व्यञ्जनाद् देः सश्च दः / 4 / 3 / 78 // धातोर्व्यञ्जनान्तात् परस्य 'देर्लुक् स्याद्, यथासम्भवं धातोः सो दश्च' / अचकात्, अजागः, अबिभः, अन्वशात् / व्यञ्जनादिति किम् ? अयात् // सेः स-द-धां च रुर्वा // 4 // 3 // 79 // व्यञ्जनान्ताद् धातोः परस्य ‘सेलृक् स्यात्, यथासम्भवं स-द-धां वा रुश्च' / अचकास्त्वम्, अचकात् त्वम् अभिनस्त्वम्, अभिनत् त्वम्; अरुणस्त्वम्, अरुणत् त्वम् // 79 // योऽशिति / 4 / 3 / 80 //