________________ .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 225 आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽघ्यार्थे 'क्तयोस्तो न् वा स्यात्, तद्योगे क्षेः क्षीश्च' / क्षीणाऽऽयुः, क्षिताऽऽयुर्जाल्मः / क्षीणकः, क्षितकस्तपस्वी // 75 / / ऋ-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा / 4 / 276 // एभ्यः परस्य 'क्तयोस्तो न् वा' स्यात् / ऋणम्, ऋतम्; ह्रीणः, ह्रीतः; हीणवान्, हीतवान्; घ्राणः, घ्रातः, ध्राणः, ध्रातः; त्राणः, त्रातः; समुन्नः, समुत्तः; नुन्नः, नुत्तः; विन्नः, वित्तः // 76 // दु-गोरू च / 4 / 277 // दु-गुभ्यां परस्य 'क्तयोस्तो न् स्यात्, तद्योगे दुगोरुश्च' / दूनः, दूनवान्; गूनः, गूनवान् // 77 // क्षै-शुषि-पचो म-क-वम् / 4 / 2 / 78 // एभ्यः परस्य ‘क्तयोस्तो यथासङ्ख्यं म-क-वाः' स्युः / क्षामः, क्षामवान्; शुष्कः, शुष्कवान्; पक्वः, पक्ववान् // 78 // निर्वाणमवाते / 4 / 279 // . अवाते कर्तरि निपूर्वाद् वातेः परस्य 'क्तयोस्तो न् निपात्यते' / निर्वाणो मुनिः / अवात इति किम् ? निर्वातो वातः // 79 // ... अनुपसर्गाः क्षीबोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः / 4 / 2 / 80 // 'अनुपसर्गाः क्तान्ता एते निपात्यन्ते' / क्षीबः, उल्लाघः, कृशः, परिकृशः, फुल्लः, उत्फुल्लः, संफुल्लः / अनुपसर्गा इति किम् ? प्रक्षीबितः / / 80 // .. भित्तं शकलम् / 4 / 2 / 81 // 'भिदेः परस्य क्तस्य नत्वाभावो निपात्यते, शकलपर्यायश्चेत्' / भित्तं शकलमित्यर्थः / शकलमिति किम् ? भिन्नं भित्तम् // 8 //