________________ 212 श्रीसिद्धहेमचन्द्रशब्दानशासनम अनुनासिके च च्छ्-वः शूट / 4 / 1 / 108 // 'अनुनासिकादौ क्वौ धुडादौ च 'धातोः च्छ्वोर्यथासङ्ख्यं श्-ऊटौ' स्याताम् / प्रश्नः, शब्दप्राशौ, पृष्टः, स्योमा, अक्षयूः, द्यूतः // 108 // मव्यवि-श्रिवि-ज्वरि-त्वरेरुपान्त्येन / 4 / 1 / 109 // एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये 'उपान्त्येन सह ऊट् स्यात् / मोमा, मूः, मूतिः; ओमा, ओम्, ऊः, ऊतिः; श्रोमा, श्रूः, श्रूतिः; जूर्मा, जूः, जूर्तिः; तूर्मा, तूः, तूर्णः // 109 // राल्लुक् / 4 / 1 / 110 // 'रात् परयोः छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये लुक् ' स्यात् / मोर्मा, मूः, मूर्तिः; तोर्मा, तूः, तूर्णः // 110 // तेऽनिटश्च-जोः क-गौ घिति / 4 / 1111 // 'तेऽनिटो धातोश्च-जोर्घिति यथासंख्यं क-गौ' स्याताम् / पाकः, भोग्यम् / क्तेऽनिट इति किम् ? सङ्कोचः, कूजः // 111 // न्यङ्ग-मेघाऽऽदयः / 4 / 1112 // ' न्यवादयः कत्वे, उद्गादयो गत्वे, मेघादयो घत्वे कृते निपात्यन्ते' / न्यङ्कुः, शोकः; उद्गः, न्युद्गः, मेघः, ओघः / / 112 / / न वञ्चेर्गतौ / 4 / 1 / 113 // 'गत्यर्थस्य वञ्चेः कत्वं न' स्यात् / वञ्चं वञ्चन्ति / गताविति किम् ? वर्ल्ड काष्ठम् / / 113 // यजेर्यज्ञाङ्गे / 4 / 1 / 114 // 'यज्ञानवृत्तेर्यजेर्गत्वं न' स्यात् / पञ्च प्रयाजाः / यज्ञाङ्ग इति किम् ? प्रयागः // 114 //