________________ 200 श्रीसिद्भहेमचन्द्रशब्दानुशासनम् एषां स्वरस्य सि सनि 'इः स्यात्, न च द्विः' / आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते / सीत्येव- पिपतिषति // 21 // . .. राधेर्वधे / 4 / 1 / 22 // राधेहिँसाऽर्थस्य सि सनि स्वरस्य 'इः स्यात्, न च द्विः' / प्रतिरित्सति / वध इति किम् ? आरिरात्सति // 22 // ___अवित्परोक्षा-सेट्थवोरेः / 4 / 1 / 23 // राधेहिँसार्थस्याऽविति परोक्षायां थवि च सेटि स्वरस्य ‘ए: स्यात्, न च द्विः' / रेधुः, रेधिथ / अविदिति किम् ? अपरराध / वध इत्येवआरराधतुः // 23 // अनादेशाऽऽदेरेकव्यञ्जनमध्येतः / 4 / 1 / 24 // अवित्परोक्षा-सेट्थवोः परयोर्योऽनादेशाऽऽदिस्तत्सम्बन्धिनः स्वरस्याऽतोऽसहायव्यञ्जनयोर्मध्यगतस्य ‘ए: स्यात्, न च द्विः' / पेचुः, पेचिथ, नेमुः, नेमिथ / अनादेशादेरिति किम् ? बभणतुः / एकव्यञ्जनमध्य इति किम् ? ततक्षिथ / अत इति किम् ? दिदिवतुः / सेट्थवीत्येव- पपक्थ // 24 // तृ-त्रप-फल-भजाम् / 4 / 1 / 25 // एषामवित्परोक्षा-सेट्थवोः स्वरस्य ‘ए: स्यात्, न च द्विः' / तेरुः, तेरिथ; पे; फेलुः, फेलिथ; भेजुः, भेजिथ // 25 // जु-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भलासो वा / 4 / 1 / 26 // एषाम् 'स्वरस्याऽवित्परोक्षा-सेट्थवोरेर्वा स्यात्, न च द्विः'.। जेरुः, जजरुः; जेरिथ, जजरिथ / भ्रमुः, बभ्रमुः; श्रेमिथ, बभ्रमिथ / वेमुः, ववमुः; वेमिथ, ववमिथ / त्रेसुः, तत्रसुः; त्रेसिथ, तत्रसिथ / फेणुः, पफणुः; फेणिथ, पफणिथ / स्येमुः, सस्यमुः; स्येमिथ, सस्यमिथ / स्वेनुः, सस्वनुः; स्वेनिथ,