________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 177 त्मनेपदम्' स्यात् / आयच्छते, आहते वा / स्वेऽङ्गे - आयच्छते, आहते वा पादम् / स्वेङ्गे चेति किम् ? आयच्छति रज्जुम् // 86 // व्युदस्तपः / 3 / 3 / 87 // आभ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि 'कर्तर्यात्मनेपदम्' स्यात् / वितपते उत्तपते रविः, वितपते उत्तपते पाणिम् // 87 / / अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ / 3 / 3 / 88 // अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् 'कर्तर्यात्मनेपदम्' स्यात् / आरोहयते हस्ती हस्तिपकान् / अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः / गित् किम् ? गणयते गणो गोपालकम् / कमति किम् ? दर्शयति प्रदीपो भृत्यान् / णिगिति किम् ? लुनाति केदारं चैत्रः, लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते लावयति केदारं चैत्रः / कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानेनमारोहयति महामात्रः / णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्तीत्यणिगि मा भूत् / अस्मृताविति किम् ? स्मरयति वनगुल्मः कोकिलम् // 8 // ... प्रलम्भे गृधि-वञ्चेः / 3 / 3 / 89 // आभ्यां णिगन्ताभ्यां वञ्चनाभ्याम् ‘कर्तर्यात्मनेपदम्' स्यात् / बटुं गर्द्धयते वञ्चयते वा / प्रलम्भ इति किम् ? श्वानं गर्द्धयति // 89 // . लीड्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाऽकर्त्तर्यपि // 3 // 3 // 10 // आभ्यां णिगन्ताभ्यामर्चा-ऽभिभव-प्रलम्भार्थाभ्याम् 'कर्तर्यात्मनेपदं स्याद्, आचानयोरकर्तर्यपि' / अर्चा - जटाभिरालापयते / अभिभवः - श्येनो वर्तिकामपलापयते / प्रलम्भः - कस्त्वामुल्लापयते ? / अकर्तर्यपीति किम् ?