________________ [ वृत्तिकृत्-प्रशस्तिः [5] तीर्थोद्धारे लसदनुभवाः सत्तपासार्वभौमा, . . . दीव्यन्तोऽस्मिन् , जगति रविव-चक्रिण: सूरिचक्रे / तन्त्रं सौवं वरधिषणया विभ्रत: सर्वतन्त्रे, s-दीव्यन् दिव्याचरणनमिता नेमिसूरीशवर्याः / / तेषां पट्टे विशदविशदे पूर्णपुण्यप्रभावे, रत्नं रत्नान्तिमकविपदः शास्रवैशारदोऽसौ / काव्यन्यायागमनिगमवित्तत्त्वपीयूषपाणि : , सूरि म्नाऽप्यमृतपदभृद् राजते राजमानः / सम्यक्तत्त्वं समभिलषता शास्त्रवार्ताख्यग्रन्थे, धैर्य धृत्वा विततमतिना भद्रदं हारिभद्रम् / प्रौढप्रौढं वचनरंचनं चर्वणाचर्वणीयं, दुर्वृत्तानां रमयति मनो-हारि नो हारिभद्रम् / / [8] शास्त्राद्वार्ता- गहनगहनग्रन्थगूढार्थभागन् , व्यक्तीकर्तुं मुनिवरयशोवाचको लब्धवर्णः / वृत्तिं चक्र सुरतरुलता-कल्पकामार्थपूर्णा, स्याद्वादान्तां विबुधफलिनां कल्पपूर्वा लताख्याम् // सेयं तर्क-प्रकरविभवा पद्यलालित्यलीला | नव्यन्यायप्रकटघटना गद्यगाम्भीर्यशीला // तत्त्वप्राप्ति: कुमतिविमतेः खण्डनी मण्डनी वा। सद्भावानामधिगमयति श्रीयशोवागविलासम् //