________________ 274 ] शास्त्रवार्तासमुच्चयस्य . [ एकादशः भोगज्ञानमात्रान्न सुखितो भवति किन्तु न भक्ष्यभोगेनैवेति / अत एव व्यापारविरहिता ज्ञानिनोऽप्यालस्योपहता: सुखसम्पद्विवर्जिता लोके पश्यतां प्राणिनां करुणाभाजन दृश्यन्ते, व्यापारप्रवणा हि क्रियासामर्थ्यात् विशिष्टफलसिद्धेर्मूर्खा अपि सन्तो भूयांस: पण्डिताधिपतयोऽपापाश्च दृश्यन्ते, ततः फलसिद्धावतन्त्र ज्ञानम् , आगमेऽपि क्रियाया एव प्राधान्यमुक्तम् / तथाहि * सुबहु पि सुअमहीन, किं काही चरणविप्पहीणस्स। अंधस्स जह पलित्ता, दीवसयसहस्स-कोडीवि // 1 // ज्ञानोत्कर्षादेव मुक्तिनतु क्रियोत्कर्षादिति पूर्वोक्तं न समीचीनम् , सर्वज्ञस्यापि शैलेशीकरणाख्यव्यापागेत्कर्षे सत्येव मुक्तिः, शैलेश्या अर्वा केवलित्वेऽपि सति मुक्तिर्न भवतीत्यतो मुक्तिः क्रियानिमित्तिकैव / उभयवादिनश्च सर्वमेव पुरुषार्थत्वेन व्यवह्रियमाणं ज्ञानक्रियायोगे एव समुत्पद्यते, विशिष्टफलमधिकृत्य प्रत्येक देशोपकारितायाः समुदाये सम्पूर्णतोपपत्तेः। उक्तं च भाष्यकृता+ वीसुंण सव्वहच्चिय, सिकतातेल्लं व साहणाभावो / देसोवगारिया जा सा, समवायम्मि संपुण्णा // अथ सम्पूर्णता फलोपहितहेतुत्वम् , देशोपकारिता च हेतुत्वमात्रम् तच्च न पृथक् ज्ञानक्रिययोः परस्परमुक्तदोषात् , तथा च कथं * सुबहपि श्रुतमधोतं किं करिष्यति चरणविप्रहीनस्य / - अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि // + विष्वग् न सर्वथैव सिकतातैलमिव साधनाभावः / देशोपकारिता या सा समवाये सम्पूर्णा / /