________________ स्तबकः ] कल्पलतावतारिका [ 273 अन्वयः–केचन, ज्ञानात्, एव, नियोगेन, सिद्धिमिच्छन्ति, अन्ये, क्रियातः, एव, इति, अन्ये, विचक्षणाः, द्वाभ्याम् / (अव०) केचन-ज्ञानवादिनः / ज्ञानात्-तत्त्वज्ञानात् / एवखलु / नियोगेन-अवश्यम्भावेन / सिद्धिम्-मुक्तिम् / इच्छन्तिवाञ्छन्ति, स्वीकुर्वन्तीति यावत् / अन्ये-क्रियावादिनः / क्रियातःक्रियायाः / एव-खलु, मुक्तिः, इति-एवं प्रकारेण / इच्छन्तीतिशेषः। अन्ये-ज्ञानक्रियावादिनः / विचक्षणा:-विद्वांसः, उभयसमर्थनाद् यथावस्थितबुद्धयः इति यावत् / द्वाभ्याम्-समुदिताभ्यां ज्ञानक्रियाभ्याम् / इच्छन्ति सिद्धिमिति शेषः / . तथाहि-फलार्थिनां पुंसां ज्ञानमेव फलदं भवति, फलोपायं प्रमाय प्रवर्तमानानां फलाव्यभिचारदर्शनात् , उपायभ्रमात् (मिथ्याज्ञानात् ) प्रवृत्तस्य पुरुषस्य फलप्राप्तेरसंभवात् , न हि मृगतृष्णिकाजलज्ञानप्रवृत्तस्यापि तदवाप्तिरिति / आगमेऽप्युक्तम् “पढम नाणं तो दया" इत्यादि / ज्ञानोत्कर्षाभ्यां फलोत्कर्षापकर्षयोरपि ज्ञानस्यैव फलहेतुत्वम् , क्रियोत्कर्षापकर्षयोस्तत्रातन्त्रत्वात् / अत एव ज्ञानहीना महाक्रिया अपि अतिचिरकाल क्लेशायासपरायणा दृश्यन्ते, ज्ञानवन्तोऽल्प क्रिया अपि ज्ञानबलेन विशिष्टफलयोगेन सुखिनो भवन्ति, न तु क्रियापकर्षादपकृष्टफलभाजो भवन्ति / एवं केवलेऽपि ज्ञानभावे मुक्तिर्भवति, अन्यथा क्रियावतोऽपि यत्नेनापि न भवति, तस्मादपि मुक्तिझनादेव न तु क्रियात इति सिद्ध भवति / . क्रियावादिनश्च-प्रवृत्तिलक्षणा क्रियैव फलार्थिपुरुषाणां फलदा भवति, न तु ज्ञान फलदम् , यस्मात् स्त्रीभक्ष्यभोगज्ञो जनः स्त्रीभक्ष्य