________________ . * ओं ह्रीं अहँ नमः ॐ सकललब्धिसम्पन्नाय श्रीगौतमस्वामिने नमः / शासनसम्राट -श्रीविजयनेमिसूरीश्वरसद्गुरुभ्यो नमः / / 1444 ग्रन्थसूत्रणसूत्रधार-सूरिपुरन्दर-स्याद्वादमतमण्डन-मण्डनभूत श्रीहरिभद्राचार्यविरचितस्यशास्त्रकातासमुच्चयस्य महामहोपाध्याय-महातार्किकश्रीयशोविजयजिद्गणिवरविरचितायाः कल्पलताया अनुसारिणी शास्त्रविशारद-कविरत्न-पीयूषपाणिभट्टारकाचार्यश्रीविजयामृतसूरीश्वरप्रणीता श्री कल्पलतावतारिका टीका -- प्रथमः स्तवकः - सर्वे नया विघटिता निरपेक्षभावा . दन्योऽन्यरोधचरणादहितं चरन्ति / स्याद्वादपक्षसरणाद्धितचारिणः स्युः, - स्याद्वादसन्मतमनन्तनयं नमामि // 1 // भयाक्रान्तं विश्व निजनिजमतोन्मादकलिलं, भयोन्मुक्तं तत् स्या-दविरतमनेकान्तसरणात् / यथा स्याद्वादात् तद् भवति तदवोचजिनपति र्नुमः सत्स्याद्वाद-प्रवरवचनं वीरमभयम् // 2 //