________________ स्तककः ] कल्पलतावतारिका [21 अन्वयः-क्वचित् , मेदच्छेदः, क्वचित् , अभेदरचना, अपि, हता, क्वचित् , आत्मख्यातिः, न, क्वचित् , कृपास्फातिविरहः, अपि, तत् , परसमये, कुत्र, कलकानाम् , शङ्का, न, अहो, यत्, स्याद्वादम् , श्रिताः, सः, विपुलः, सुकृतपरिणामः / (कल्पलतावतारिका) क्वचित्-कुत्रचित्, वेदान्तदर्शन इति यावत् / भेदच्छेदः-भेदोन्मूलनम् , अद्वैतस्यैव तत्र स्वीकारात् / क्वचित्-कुत्रचित् , न्यायादिदर्शने इति यातत् / अभेदरचना-अभेदस्थापना / अपि-सम्भावनायाम् / हता-विनाशिता, खण्डितेति यावत् / अनेकात्मवादस्यैव तत्र तत्र स्वीकारात् / क्वचित्--मीमांसादर्शने / कृपास्फातिविरहः-दयाबाहुल्याभावः, तस्य यज्ञादिप्रवर्तकत्वात् तस्य च हिंसादिबहुलत्वात् / अपि-सम्भावनायाम् / तत्-तस्माद्धेतोः / परसमये-अन्यदर्शनिसिद्धान्ते / क-कुत्रं / कलङ्कानाम्-अपवादात्मकदूषणविशेषाणाम् / शा-त्रामः, वितर्को वा / "शङ्का त्रासे वितर्के च" इति मेदिनी / न-नहि / वर्तते इति शेषः / अपि तु सर्वत्रैव परसिद्धान्ते तच्छका वर्तत एवेति भावः / अहो-वितर्केऽव्ययम् / “अहो प्रश्ने वितर्के च" इतिमेदिनी। यत्-यस्मात् / (वयम् ) स्याद्वादम्-अनेकान्तवादम् / श्रिताः-आश्रिताः / सः-अस्मत्कर्तृकस्याद्वादाश्रयः / विपुल:-महान् / सुकृतपरिणामः-पुण्यपरिपाकः / अन्यथा कल्पद्रुमतुल्यस्याद्वादाश्रयणं न स्यादितिभावः / अनेकान्तदर्शनं सर्वोत्कृष्टमिति ध्वननाद् ध्वनिपाध्यमिदमिति शम् /