________________ / / घाटकोपरस्थितश्रीसर्वोदयपार्श्वनाथाय नमः / / न्यायविशारद-महोपाध्यायश्रीमद्-यशोविजयगणिवर्य समुच्चितः सिद्धसहस्रनामकोशः -0 ऐन्द्री श्रीः प्रणिधानस्य फलं यस्यानुषङ्गिकम् / मुख्यं. महोदयप्राप्तिस्तं सिद्धं प्रणिदध्महे // 1 // . तस्याष्टसहस्राख्यास्मरणं शरणं सताम् / मङ्गलानां च सर्वेषां परमं मङ्गलं स्मृतम् // 2 // १-अस्य कोशस्य-लेखनकालः वि० सं० 1736 इति मूलप्रताङ्कितमस्ति /