________________ प्रथमः सर्गः 145 ( 65 ) तं युवानमनुवीक्ष्य पुरन्ध्री, दुःखमज्जितमनावृति-कृत्ये / आशयाऽपि कृशयौवनिकाऽभूत्, - तां विहाय किल नायकदेवीम् // ( 66 ) अथ कथमपि योग्यतावमर्श व्यतिकर-संशयपारगस्य धातुः / मनसि पदमियं भृशं कृशाङ्गी, समधृत नायकदेव्यपीह कार्ये // (67 ) इमां कथञ्चित्परमाणुमध्यां, मनो विधेर्यत्परमाणु दधे। तत्कल्पनीयः किल कोऽपि तस्यां, संयोगयोग्यप्रतियोगिभावः // ( 68 ) श्रियमिव हरिणा हरेण गौरी, .. सुरपतिनेव पुलोमजां प्रगल्भः / वि-१४