________________ प्रथमः सर्गः 135 ( 55 ) अपारिजातोऽपि वनोपकाना मपूपुरत् कामितमर्थमेषः। सपारिजातस्तु विलज्जयातो, लोनालिनीलाननतां प्रपन्नः // ( 56 ) गुणेन दानस्य तुलामयासीद्-, वथाऽस्य कि कामगवी पशुः सा / एतद्विशेषश्रवणेन शश्वन्नोचेद्धियोत्तानमुखी कथं वा // ( 57 ) अहो भवस्यैव महान् व्ययोऽभूत्, सुपात्रपोषाद्विभवव्ययेन / भावे पुनस्तस्य विवर्धमाने, वरीवृधीति स्म विभाव एव / ( 58 ) ततः कृतार्था विबुधा अपीमे, ... कल्पद्रुमस्यापि न याचितारः। तदात्तदातृत्वगुणस्य तस्य, कष्टत्वमात्र किल संविदानाः //