________________ 134 विजयोल्लास-महाकाव्यम् एतद्गुणैश्चन्द्रमरीचिगौर र्यशःपटं यं कवयो वयन्ति / तेनावृताङ्गो भवतादिदानी, सुद्यौद्गाक्षी मलिनाम्बरत्वक् // ( 52 ) अनेन सम्पूरयता जनाना ___ माशां यशो यद्विशदं प्रसूतम् / अपूपुरत् कां न भृशं तदाशां, गुणो हि हेतोनिजकार्यगामी // . ( 53 ), श्वभ्रं बलिः प्रेष्यत विष्णुनेति, प्राचां न वाचामनुमोदना नः / ह्रियैव तद्दानगुजितः सन्नधो जगामेति तु नव्यतर्कः // (54). वनीपकानामिदमीयदान नीरस्रवन्त्या परिवाहितो यः। और्वानलस्य च्छलतः किलाब्धौ, दारिद्रयवह्निवलति स्फुटोऽयम् // 1. श्वभ्र बलिः कंसजिता धृतेत्यपपाठोऽपि क्वचिल्लभ्यते /