________________ 74 आर्षभीय-चरित-महाकाव्यम् .. , तु- (12 ) सन्तापिताः स्वामिवचोऽनलोष्ण. मेते यदस्माभिरुदीरयद्भिः। संशोधयामस्तमिमं तु मन्तुमकृत्रिमैतद् गुणसंस्तवौघः॥ ( 13 ) न वेत्ति वक्तुं खलु नीचजिह्वा, ब्र ते न सम्यग्गुणिनां गुणं या। तत्प्रत्यवायोपनताच्च साध्य मुत्पातवातान्मुखरत्वमस्याः // - (14 ) गुणग्रहेणैव विचिन्त्य वाचा माचारपूताः फलवज्जनित्वम् / भवन्ति सन्तः किल सिद्धशुद्धसारस्वताः केचन तत्प्रपञ्चे // ( 15 ) अल्पो हि जल्पोऽन्यगुणे गुणित्वं, सन्देहतल्पोपगतं तनोति / . भू यो गुणानामुचितं तदेषा-. मानन्दिबन्दिव्रतधारणं नः॥