________________ द्वितीयः सर्गः 43 ( 28 ) ध्वजिनी बहुभूभृतां ध्वजै ननु मायेव गुणैरभिद्यत / न तु तेष्वविशेषमान्तरं, किमपि ज्योतिरगाद्विभिन्नताम् // ( 26 ) अतिघनतो महीभृतां, बहुकोलाहलगजितोजितः / च्युतहारमणिवजैरभन्ननु रत्नाकर एव तत्पथः // ( 30 ) तिलमात्रमपि स्थिता न भूः, पृथिवीशेष्वभियत्सु सर्वतः। प्रभुताप्तिसुखानि सोऽन्वभूत्, प्रथमं यः प्रभुवीक्षणं व्यधात् // ( 31 ) रतिहासविलासशालिभि___ बहुशो भूमिभुजां गतागतः / अभवत् प्रतिनायकं भुवः / कुलवध्वा न कटाक्षलक्षणा //