________________ 260 સંસ્કૃત બીજી ચેપડી स्वल्पं स्नायुवसावशेषमलिनं निर्मासमध्यस्थिक श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये / सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् // 16 // लागृलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च / श्वा पिण्डदस्य कुरुते गजपुंगवस्तु धीरं विलोकयति चाटुशतैश्व भुङ्क्ते / / 17 / / परिवर्तिनि संसारे मृतः को वा न जायते / स जातो येन जातेन याति वंशः समुन्नतिम् // 18 // कुसुमस्तबकस्येव द्वयो वृत्तिमनस्विनः / मूनि वा सर्वलोकस्य विशीर्यंत वनेऽथवा / / 19 / / तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता वचनं तदेव / अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् // 20 // दौर्मन्त्र्यान्नृपतिविनश्यति यति: सङ्गात्सुतो लालना द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छील खलोपासनात् / हीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया न्मैत्री चाप्रणयात्समृद्धिरनयात्यागात्प्रमादा नम // 21 // दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य / यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति // 22 // रे रे चातक सावधानमनसा मित्र क्षणं श्रयता मम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः / केचिवृष्टिभिरार्द्रयन्ति धरणी गर्जन्ति केचिथा - यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः // 23 //