SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચેપડી 253 पुष्पिण्यौ चरतो जङ्घ भूष्णुरात्मा फलपहिः / *शेरेऽस्थ सर्वे पामान. श्रमेण प्रपथे हताः / चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार / सोऽरण्यादग्राममेयाय / तमिन्द्रः पुरुषरूपेण पर्यत्योवाच / आस्ते भग आसीनस्यार्ध्वस्तिष्ठति तिष्ठतः / शेते निपद्यमानस्य चराति चरतो भगः / / चरैवेति / चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थ संवत्सरमरण्ये चचार। सोऽरण्याग्राममेयाय / तमिन्द्रः पुरुषरूपेण पर्यत्योवाच / कलिः शयानो भवति संजिहानस्तु द्वापरः / उत्तिष्ठंस्रता भवति कृतं संपद्यते चरन् / चरैवेति / चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार / सोऽरण्याग्राममेयाय / तमिन्द्रः पुरुष. रूपेण पर्यत्योवाच / चरन्यै मधु विन्दति चरन्त्स्वादुमुदुम्बरम् / सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन् / चरैवेति / चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सर मरण्ये चचार / सोऽजीगत सौयवसिमृषिमशनया परीतमरण्य उपेयाय / तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनःशेपः शुनो. लागुल इति होवाच ऋषेऽहं ते शतं ददाम्यहमेषामेकेनात्मानं निष्कीणा इति / स ज्येष्ठं पुत्रं निगृह्णान उपाच न विममिति * शी धातुन वर्तमानाना 34 पु. 5. 4. नुवै 35. .
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy