________________ સંસ્કૃત બીજી ચેપડી ઉપર મનેયત્ન માટે ચૂંટી કાઢેલા પાઠ (1. ऐतरेय ब्राह्मण-पश्चिका 7) हरिश्चन्द्रो ह वैधस एश्वाको राजाऽपुत्र * आस / तस्य ह शतं जाया बभूवुः / तासु पुत्रं न लेभे / तस्य ह पर्वतनारदौ गृह ऊषतुः / स ह नारदं पप्रच्छ / यन्न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न / / किंस्वित्पुत्रेण विन्दते तन्म आचश्व नारद // इति / स एकया + पृष्टो दशभिः प्रत्युवाच / ऋणमस्मिन्त्सिंनयत्यमृतत्वं च गच्छति / पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् // यावन्त: पृथिव्यां भोगा यावन्तो जातवेदसि / यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः // शश्वत्पुत्रेण पितरोऽत्यायन्बहुलं तमः / अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति / तथेति / स वरुणं राजानमुपसार पुत्रो मे जायतां तेन त्वा यजा इति / तथेति / तस्य ह पुत्रो जज्ञे रोहितो नाम / तं होवाचाजनि ते वै पुत्रो यूजस्व मानेनेति / स होवाच यदा वै पशुनिर्दशी भवत्यथ स मेध्यो भवति निर्दशो * अस् 'हा' यने ५२।क्ष भूताण, व्याहि पुस्तामा आम् યુક્ત પરોક્ષ ભૂતકાળ બનાવવામાં માત્ર સહાયકારક ક્રિયાપદ તરીકે अस् व५२राय छे. + मानी पछी गाथा मेटले ' ' श६ समral. * આ દશમાંના ફક્ત અઢી લેક આપેલા છે. : અન્ય - અને ર્ વચ્ચે ત વિકલ્પ મુકાય છે.