SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 131 ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् / मया तेऽन्तहितं रूपं न त्वां विद्युर्जना इति / / यत्कृते चासि निकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति / / विषेण संवृतैर्गात्रैवत्त्वां न विमोक्ष्यति / तावत्वयि महाराज दुःखं वै स निवत्स्यति॥ अनागा येन निकृतस्त्वमनों जनाधिप / क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥ न ते भयं महावीर दंष्ट्रिभ्यः शत्रुतोऽपि बा। ब्रह्मर्षिभ्यश्च भविता मत्प्रसादान्नराधिप / राजन्विषनिमित्ता च न ते पीडा भविष्यति / संग्रामेषु च राजेन्द्र शश्वजयमवाप्स्यसि / गच्छ राजनितः सूतौ बाहुकोऽहममिति बुबन् / समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः॥ अयोध्यां नगरी रम्यामद्य वै निषधेश्वर / स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै // इक्ष्वाकुकुलजः श्रीमान्मिचैव भविष्यति / भविष्यसि यदाक्षशः श्रेयसा योध्यसे तदा // समेष्यसि च दारस्त्वं मा स्म शोके मन: कृथाः / राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते !! स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप / संस्मर्तव्यस्तदा तेऽहं वासप्रचेदं निबासये: n अनेन वाससा च्छन्न: स्वं रूपं प्रतिपत्स्यसे / इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुग तदा / / * આ ધાતુનું આત્મને અદ્યતન ભૂતકાળ 2 જે પુ. એ. વ. छे, मने सभा वाय४ माराम सोपाय छे. ( पा. 22, 24aa .)
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy