________________ अभिज्ञानशाकुन्तलम्- [प्रथमो [पुनर्नेपथ्ये ] भो 'भोस्तपस्विनः ! पर्याकुलयन् वृद्ध-स्त्री-कुमारानेष गजः प्राप्तः / तीवाऽऽघातादेभिमुखतरुस्कन्धभग्नैकदन्तः, प्रौढाऽऽकृष्टव्रततिवलयाऽऽसञ्जनाजातपाशः / मूर्तों विघ्नस्तपस इव नो, भिन्नसारङ्गयूथो, धर्मारण्यं विरुजति गजः, स्यन्दनाऽऽलोकभीतः // 35 // अभिरुन्धन्ति = पीडयन्ति / पर्याकुलयन् = त्रासयन् , वृद्धान् , स्त्रियः, कुमारांश्चवृद्धस्त्रीकुमारान् / प्राप्तः = आगच्छति / गजः = वनगजः / राजसेनागजो वा / तीब्रेति / तीव्रात् = दृढात् , आघातात् = प्रहारात् - मुखमभिगतः-अभिमुखः = संमुखो, यस्तरुः = वृक्षः, तस्य स्कन्धेन भग्न एकदन्तो यस्यासौ / किञ्चप्रौढा = दृढा, स्थूला चासावाकृष्टा च या व्रततिः = लता, तस्या वलयं, [ प्रौढंदृढमाकृष्ट यज्ञततिवलयमित्येव रीत्या प्रौढमिति क्रियाविशेषणं वा ], तस्य तेन वा समामञ्जनं = संसर्गस्तस्मात् , जातः-पाशो = बन्धनं यस्यासौ तथा। किञ्च-नः = अस्माकं, तपसः = धर्माचरणस्य, मूर्तो विघ्न इव = मूर्तिमान् विघ्न इव / किञ्च-भिन्नं = भनं, सारङ्गाणां-मृगाणां, यूथं = समूहो येनासौ तथा / स्यन्दनस्य = दुष्यन्तरथस्य, आलोकात् = दर्शनात्, भीत: = त्रस्तः सन्, गजः = वन हस्ती, धर्मारण्यं = तापसाश्रम, विरुजति = व्याकुलयति / [ 'मूर्तों विघ्न इवे' त्युत्प्रेक्षा, अप्रस्तुतप्रशंसा चालङ्कारी पद्येऽस्मिन् ] // 35 // हे तपस्वियों ! सावधान ! सावधान !! देखो, देखो, बालक वृद्ध एवं स्त्रियों को व्याकुल करता हुआ यह मस्त हाथी सिक्कड़ तुड़ाकर (या. वन्यहस्ती ) इधर ही चला आ रहा है!। यह हाथी-जिसका एक दाँत सामने आए हुए वृक्ष में जोर से आघात करने से टूट गया है और लताओं के जाल को बलात् खीचने से जिसके पैर में लताओं का पाश सा लग गया है, हमारी तपश्चर्या में साक्षात् विघ्न स्वरूप होकर, आश्रम के हरिणों के झुण्ड को छिन्न भिन्न व भय विद्रुत करता हुआ, सेना के रथों को देखकर, भड़क कर, हमारे इस धर्मारण्य को नष्ट-भ्रष्ट कर 1 अयं पाठः कचिन्न / 2 'तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः' इति शोभनः पाठः / 3 'पादाकृष्ट' / 4 'वलयासङ्गसजातपाशः' / 5 'प्रविशति' /