________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः // 1 // __यया च = वायुरूपया मूर्त्या, प्राणिनः = शरीरिणः, प्राणवन्तः = चैतन्यभाजः, जीवन्ति / वायुरूपा भगवतो मूर्तिः प्राणापानादिभिर्जगदिदमुद्विभर्ति, प्राणयति चेति स्पष्टमेव / 'प्राणो हृन्मारुते, बोले, काव्ये, जीवेऽनिले, बले' इति विश्वः / 'प्राणी तु चेतनो, जन्मी, जन्तु-जन्यु-शरीरिणः' इत्यमरः / 'प्राणोऽपानः समानश्चोदानव्यानौ च वायवः' इत्यमरः / ताभिः = एताभिः पूर्वोक्ताभिः, अष्टाभिः = जल-वह्नि-यजमान-सूर्य-चन्द्रगगन-धरणि-पवमानाख्याभिः, प्रत्यक्षाभिः = प्रत्यक्षमुपलभ्यमानाभिः, तनुभिः = प्रत्यक्षात्मकज्ञानविषयीभूताभित्तिभिः, प्रपन्नः = युक्तः, ईशः = शम्भुः क- युष्मान् , सभासदः, अवतु = रक्षतु, अभीष्टसिद्धिं च युष्मभ्यं वितरतु / - अत्र वायोस्त्वगिन्द्रियेण प्रत्यक्षं / शब्दरूपविशेषगुणस्य श्रोत्रेन्द्रियेण प्रत्यक्षं / तदाश्रयस्य गगनस्य त्वौपचारिकं प्रत्यक्षं बोध्यम् / अत एवैकतारं नभो न पश्येदित्यादयः प्रयोगाः प्रामाणिकानां सुष्टूपपद्यन्ते, विशेषणप्रत्यक्षेण विशेष्यप्रत्यक्षाभ्युपगमात् / [भावार्थः]-जलरूपया, पावकरूपया, यजमानरूपया, चन्द्ररूपया, सूर्यरूपया, गगनरूपया, धरणीरूपया, वायुरूपया च मूर्त्या युक्तोऽष्टमूर्तिः, प्रत्यक्षमनुभूयमानमाहात्म्यातिशयो, भगवान् शिवो युष्मान् सभ्यान्, अस्मान् नटादींश्च अवतु-शुभोदयेन योजयतु, भद्रं वितरतु च सर्वेभ्यः / है, ( अर्थात् पृथिवी), और जिस मूर्ति से प्राणी मात्र अनुप्राणित ( जीवित ) होते हैं, ( अर्थात् वायु रूपी मूर्ति ), इस प्रकार प्रत्यक्ष सिद्ध इन आठों मूर्तियों से युक्त भगवान् श्री शङ्कर आप लोगों की रक्षा करें। ___ भावार्थ-देषताओं के भी देवता भगवान् श्रीशङ्कर की लोक प्रसिद्ध आठ मूर्तियाँ (विभूति) हैं। अर्थात् भगवान् के आठ प्रकारके शरीर हैं। जिनके नाम हैं१ जल, 2 अग्नि, 3 यजमान ( यज्ञकर्ता), 4 सूर्य, 5 चन्द्रमा, 6 आकाश, 1. 'प्रसन्नः' इति पाठान्तरम् / तत्र-अष्टाभिर्मूर्तिभिरुपलक्षितः, प्रसन्नः = भक्तजनोपरि कृतप्रसादः, ईशः-अवतु-इत्यर्थः /