________________ 78 अभिज्ञानशाकुन्तलम् [प्रथमो राजा-उपपद्यते। मानुषीभ्यः कथं नु स्यादस्य रूपस्य सम्भवः / न प्रभातरलं ज्योतिरुदेति वसुधातलात् / // 28 // (शकुन्तला-सव्रीडाऽधोमुखी तिष्ठति)। राजा-(आत्मगतं--) हन्त ! लब्धाऽवकाशो मे मनोरथः / 'अथ किम्'-इति हि स्वीकृतिसूचनाय नाटके प्रयुज्यते / एवमेतदित्यर्थः / उपपद्यते = युक्त्याऽप्यवगम्यते / मानुषीभ्य इति / अस्य रूपस्य = शकुन्तलासौन्दर्यस्य, मानुषीभ्यः कथं नु सम्भवः 1 =नोद्भवोऽस्य सम्भवति / यतः-प्रभया = मयूखमण्डलेन, तरलम् = उज्ज्वलं / 'तरलञ्चञ्चले, षिङ्गे, हारमध्यमणावपि / भासुरेऽपी' ति विश्वः / ज्योतिः = विद्युत्सूर्यचन्द्रादि ज्योतिः, वसुधातलात् = भूमण्डलात् , नोदेति = नाविर्भवति / [श्रति-वृत्त्यनुप्रासौ, प्रतिवस्तूपमा च / 'निदर्शनं च नाटकभूषणं, 'यत्राऽर्थानां प्रसिद्धानां क्रियते परिकीर्तनम् / परपक्षव्युदासार्थ, तन्निदर्शनमुच्यते' , इति तल्लक्षणं दर्पणे / विलोभनं नाम मुखसन्ध्यङ्गञ्च, 'गुणाख्यानं विलोभन' मिति दर्पणात् ] // 28 // सव्रीडा = सलज्जा / स्वप्रशंसया स्ववृत्तान्तेन चाऽत्र सलजता / लब्धः = प्राप्तः, अवकाशः = अवसरो येनासौ तथा / मनोरथः = हृदयाभिलाषः / फलिष्यतीत्यर्थः / राजा-यह ठीक ही है / क्योंकि ऐसे रूपका उद्भव मानुषियों ( मनुष्यस्त्रियों ) में कहाँ सम्भव हो सकता सकता है ? क्या कभी प्रभापुञ्ज से चमकती हुई ज्योति (बिजली आदि) भी भला पृथिवी से पैदा हुआ करती है ? / अर्थात्-बिजली की सी ज्योति (चमक ) वाली ऐसी कन्या की उत्पत्ति तो स्वर्ग में ही सम्भव हो सकती है, पृथिवी पर नहीं // 28 // [शकुन्तला-अपनीप्रशंसा से लज्जित हो, नीचा मुख कर, बैठी रहती है। राजा-( मनही मन ) अहा ! हा! तब तो मेरी (शकुन्तला के पाने की) इच्छा के पूर्ण होने का यहाँ अवसर मालूम होता है। अर्थात् यह अप्सरागर्भोद्भूत