________________ 628 दाक्षिणात्यपाठानुसारि [सप्तमो राजा-(अपवा - ) हन्त, द्वितीयमिदमाशाजननम् / (प्रकाशम्--) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? / तापसी-को तस्स धम्मदारपरिचाइणो णाम संकीति, चिन्तिस्सदि / [ कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति 1] / राजा-(स्वगतम्-) इयं खलु कथा मामेव लक्ष्यीकरोति ! / यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि / अथवाऽनार्यः परदारव्यवहारः। (प्रविश्य मृन्मयूरहस्ता-) तापसी-सव्वदमण ! सउन्दलावण्णं पेक्ख / [ सर्वदमन ! शकुन्त-लावण्यं ( शकुन्तला-वर्ण-) प्रेक्षस्व ] / बाल:-( सदृष्टिक्षेपम्-) कहि वा मे अज्जु 1 / [कुत्र वा मम माता] / उभे-णामसारिस्सेण वञ्चिदो माउवच्छलो। [नामसादृश्येन वञ्चितो मातृवत्सलः !] / द्वितीया-वच्छ ! इमस्स मित्तिआमोरअस्स रम्मत्तणं देक्ख त्ति भणिदो सि / [ वत्स ! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि / __ राजा-(आत्मगतम्-) किंवा शकुन्तलेत्यस्य मातुराख्या ? / सन्ति पुनर्नामधेयसादृश्यानि / अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते। बालः-अज्जुए ! रोअदि मे एसो मइमोरओ। (-इंति कीडनकमादत्ते ) / [ मातः ! रोचते मे एष भद्रमयूरः] / प्रथमा-( विलोक्य सोद्वेगम्-) अह्महे ! रक्खाकरण्ड से मणिबन्धे ग दीसदि / [अहो ! रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते !] / राजा-अलमलमावेगेन / नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् / (-इत्यादातुमिच्छति)। उभे-मा खु एवं अवलम्बअ। कहं गहीदं णेण? / (-इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)। [ मा खल्विदमवलम्ब्य / कथं गृहीतमनेन !] / राजा-किमर्थं प्रतिषिद्धाः स्मः ? / प्रथमा-सुणोदु महाराओ। एसा अवराजिदा णाम ओसही इमस्स