SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ - अभिज्ञानशाकुन्तलम्विदूषकः-जं भवं आणवेदि / (-इति निष्क्रान्तः)। [यद्भवानाज्ञापयति / मातलिः-आयुष्मान् रथमारोहतु। (राजा-रथाधिरोहणं नाटयति ) / ( इति निष्क्रान्ताः सर्वे)। इति षष्ठोऽङ्कः। अथ सप्तमोऽङ्कः। ( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा, मातलिश्च ) / राजा-मातले ! अनुष्ठितनिदेशोऽपि मघवतः सस्क्रियाविशेषादनुपयुक्त मिवात्मानं समर्थये। . मातलि:-( सस्मितम्-) आयुष्मन् ! उभयमप्यपरितोषं समर्थये / / प्रथमोपकृतं मरुत्वतः, प्रतिपत्त्या लघु मन्यते भवान् / गणयत्यवदानविस्मितो, भवतः सोऽपि न सत्क्रियागुणान् // 1 // राजा-मातले ! मा मैवम् / स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः / मम हि दिवौकसां समक्षम सनोपवेशितस्य.. अन्तर्गतप्रार्थनमन्तिकस्थं, जयन्तमुवीक्ष्य कृतस्मितेन / आमृष्टवक्षोहरिचन्दनाऽङ्का, ___ मन्दारमाला हरिणा पिनद्धा // 2 // मातलि:-किमिव नामाऽऽयुष्मानमरेश्वराचाहति ? / पश्य सुखपरस्य हरेरुभयैः कृतं, - त्रिदिवमुद्धृतदानवकण्टकम् / . .
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy