________________ S:] अभिज्ञानशाकुन्तलम् 611 राजायद्यत्साधु न चित्रे स्याक्रियते तत्तदन्यथा। तथापि तस्या लावण्यं रेखया किंचिदन्वितम् // 14 // सानुमती-सरिसं एवं पच्छादावगुरुणो सिणेहस्स, अपवलेवस्स / [ सदृशमेतत्पश्चत्तापगुरोः स्नेहस्याऽनवलेपस्य च ] / विदूषकः-भो ! दाणिं तिष्णिओ तत्तहोदीओ दीसन्ति / सम्बायो म दसणीआओ / कदमा इत्थ तत्तहोदी सउम्दला ? / [ भो ! इदानी तिस्रस्तत्रभवत्यो दृश्यन्ते। सर्वाश्च दर्शनीयाः। कतमाऽत्र तत्रभवती शकुन्तला ?] / सानुमती-अणमिण्णो वखु ईदिसस्स स्वस्स मोहदिट्ठी अर्थ जणो / [ अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः / राजा-त्वं तावत्कतमां तर्कयसि ? / विदूषकः-तक्केमि जा एसा सिडिलकेसबन्धणुग्वन्तकुसुमेण केसन्तेण, . उब्भिण्णस्सेअबिन्दुणा वअणेण, विसेसदो ओसेरिआहि बाहाहि, अवसेअसिणिद्धतरुणपल्लवस्स चूअपाअबस्स पासे ईसिपरिस्सम्ता विअ आलिहिदा सा सउन्दला / इदराओ सहीओ त्ति / [ तर्कयामि यैषा शिथिलकेशबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन, विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्वे ईषत्परिश्रान्तेवाऽऽलिखिता, सा शकुन्तला / इतरे सख्याविति ] / राजा-निपुणो भवान् / अस्त्यत्र मे भावचिह्नम् / स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः। अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् // 15 // चतुरिके ! अर्द्धलिखितमेतद्विनोदस्थानम् / गच्छ / वर्तिकां तावदानय / चतरिका-अज माढव ! अवलम्ब चितफल जाव आअच्छामि / [आर्य माढव्यं ! अवलम्बस्व चित्रफलक, यावदागच्छामि] / राजा-अहमेवैतदवलम्बे / (-इति ययोकं करोति ) / (निष्क्रान्ता चेटी)।