________________ दाक्षिणात्यपाठानुसारि-. [षष्ठोराजा-शचीतीर्थ वन्दमानायाः सस्वास्ते हस्ताद् गङ्गास्रोतसि परिप्रष्टम् / विदूषकः-जुजह / [युज्यते ] / सानुमती-अदो एब्व तवस्सिणीए सउन्दलाए अधम्मभीरुणो इमस्स राएसिणो परिणए संदेहो भासि / अहवा ईदिसो अणुराओ अहिण्णाणं अवे. क्खदि ? / कहं विअ एवं ? / [अत एव तपस्विन्याः शकुन्तलाया अधर्मधीरोरस्य राजर्षेः परिणये संदेह आसीत् / अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते 1 / कथमिवैतत् 1]| राजा-उपालप्स्ये तावदिदमङ्गुलीयकम् / विदूषकः-(आत्मगतम्-) गंहीदो गेण पन्था उम्मत्ताणं / [ गृहीतोऽनेन पन्था उन्मत्तानाम् ] / , राजाकथं नु तं बन्धुरकोमलाङ्गलिं करं विहायाऽसि निमग्नमम्भसि ? / अथवा अचेतनं नाम गुणं न लक्षये न्मयैव कस्मादवधीरिता प्रिया ? // 13 // विदूषकः-(आत्मगतम्- ) कहं बुभुक्खाए खादिदग्वो नि / [ कथं बुभुक्षया खादितव्योऽस्मि 1] / राजा-अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनदर्शनेन / (प्रविश्याऽपटीक्षेपेण चित्रफलकहस्ता-) चतुरिका-इअं चित्तगदा भट्टिणी। (-इति चित्रफलकं दर्शयति ) / [इयं चित्रगता भट्टिनी]। विदूषकः-साहु वअस्स! महुरावत्थाणदंसणिजो भावाणुप्पवेसो / क्खलदि विअ मे दिट्ठी णिण्णुण्णअप्पदेसेसु / [साधु वयस्य ! मधुरावस्थानुदर्शनीयो भावानुप्रवेशः / स्खलतीव मे दृष्टिनिम्नोन्नतप्रदेशेषु] / सानुमती-अम्मो! .एसा राएसिणो णिउणदा / जाणे सही अगदो मे वदि त्ति / [ अहो ! एषा राजर्षेनिपुणता / जाने सख्यग्रतो मे वर्तते इति /