________________ 539 ऽङ्कः] अभिज्ञानशाकुन्तलम् -तथापि तत्वत एनामुपलप्स्ये।। शकुन्तला-( ससंभ्रमम्-) अम्मो ! सलिलसेअसंभमुग्गदो णोमालिई उझिम वअणं मे महुअरो अहिवट्टह ! / (-इति भ्रमरबाधां रूपयति)। - [अम्मो ! सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते / राजा-(सस्पृह-) चलाऽपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती, रहस्याख्या यीव स्वर्नास मृदु कर्णान्तिकचरः / करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं, . वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती // 20 // शकुन्तला--ण एसो दुट्ठो विरमदि / अण्णदो गमिस्सं / ( पदान्तरे स्थित्वा, सदृष्टिक्षेपं- ) कहं इदो वि आअच्छदि ? / हला, परित्ताअह में इमिणा दुग्विणीदेण दुट्टमहुअरेण अहिहूअमाणं / ... [नैष दुष्टो विरमति / अन्यतो गमिष्यामि / कथमितोऽप्यागच्छति 1 / हला ! परित्रायेयां मामनेन दुर्विनीतेन दुष्टमधुकरेण अभिभूयमानाम् ] / . उभे-( सस्मितं- ) का व परित्तादुं ? / दुस्सन्दं एवं अक्कन्द / राअरक्खिदव्वाइं तवोवणाई णाम / [ के आवां परित्रातुम् / दुष्यन्तमेवानन्द / राजरक्षितव्यानि तपोवनानि नाम] / राजा-अवसरोऽयमात्मानं प्रकाशयितुम् / न भेतव्यं, न भेतव्यम् / (-इत्योक्ते। स्वगतम्-.) राजभावस्त्वभिज्ञातो भवेत् / भवतु / एवं तावदभिधास्ये। - शकुन्तला-( पदान्तरे स्थित्वा, सदृष्टिक्षेपम्- ) कहं इदो वि में अणुसरदि ? / [ कथमितोऽपि मामनुसरति ?] / राजा-( सत्वरमुपसृत्य ) कः पौरवे वसुमती शासति, शासितरि दुर्विनीतानाम् / - अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ? // 21 // 1 'करं'। 2 'परिहूअमाणं' [ परिभूयमानाम् / 3 क्वचिन्न /