________________ 480 अभिज्ञानशाकुन्तलम्- [सप्तमोराजा-मातले ! कतमस्मिन् प्रदेशे मारीचाश्रमः ? / मातलि:-( हस्तेन दर्शयन्–) पश्यवल्मीकार्द्धनिमममूर्तिरुरगत्वग्ब्रह्मसूत्रान्तरः, कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः / अंसव्यापि शकुन्तनीडनिचितं बिभ्रजटामण्डलं, यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः // 11 // विशेषः = भेदः / 'शतक्रतुरिति पाठेऽप्येष एवार्थः / मारीचः = मरीचिपुत्रः कश्यपः। ___ वल्मीकेति / वल्मीकेऽर्द्धा निमग्ना मूर्तिर्यस्यासौ--वल्मीकार्द्धनिमग्नमूर्तिः = वामलूरमृत्कूटनिविष्टशरीराद्धः / 'वामलूरश्च’ नाकुश्च वल्मीकं पुनपुंसकम्'--इत्यमरः / पाठान्तरे--वल्मीकाग्रं = वल्मीकप्रान्तभागः / अन्य ब्रह्मसूत्रं-ब्रह्मसूत्रान्तरम् / उरगत्वगेव ब्रह्मसूत्रान्तरं यस्यासौ-उरगत्वग्ब्रह्मसूत्रान्तरः = सर्पनिर्मोकयज्ञोपवीतान्तरः। सर्पत्वग्यत्राऽपरं यज्ञोपवीतमिव भातीत्याशयः। पाठान्तरे-संदष्टाः सर्पाणां त्वचो यत्र, सेन = संसक्तसर्पकञ्चकेन / उरसा = उरस्थलेनोपलक्षित इत्यर्थः। कण्ठे = कण्ठस्थले। जीर्णानां लतानां प्रतानं, तदेव वलयं-तेन जीर्णलताप्रतानवलयेन = पुराणलतामण्डलेन / अत्यर्थं सम्पीडितः= संसक्तः / समन्तादावृतः। प्रतानं वलय इव = कण्ठरोमाणीवेति वा / 'वलयः कण्ठलोम्नि स्याद्वलयं कङ्कणेऽपि चे ति विश्वः / अंसौ व्याप्नोति तच्छीलम्अंसव्यापि = स्कन्धप्रसृतं / शकुन्तानां नीडैर्निचितं-शकुन्तनीडनिचितं = राजा-हे मातले ! भगवान् मारीच (कश्यपजी) का आश्रम किस जगह है ? / मातलि-(हाथ से दिखाता हुआ-) हे आयुष्मन् ! इधर देखिएचीटियों और दीमकों से निकली हुई मिट्टी के दूह के बीच में जिनका आधा शरीर (शरीर के नीचे का भाग ) दब गया है, और सों की केचुलियाँ जिनके शरीर पर दूसरी जनेऊ की तरह ही मालूम हो रही हैं, लिपटी हुई लताओं के तन्तुओं से जिनका गला खूब कस गया है, ऐसे ये महर्षि-जिसमें पक्षियों 1 'वल्मीकाग्रनिमममूर्तिहरसा सन्दष्ट सर्पत्वचा' पा० /