________________ ऽङ्कः ] अभिनवराजलक्ष्मी भाषाटीका विराजितम् राजा-अस्ति / श्रुतपूर्वो मया नारदात् / मातलि:'सख्युस्ते स किल शतक्रतोरवध्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता। उच्छेत्तुं प्रभवति यन्न सप्तसप्ति स्तन्नैशं तिमिरमपाकरोति चन्द्रः // 36 // दुर्जयः / मया नारदात्पूर्व श्रुतः-श्रुतपूर्वः / नारदात्तद्वत्तान्तं श्रुतवानस्मीत्याशयः / __ सख्युस्त इति-सः = दुर्जयो दानवगणः / ते = तव / सख्युः = मित्रस्य / शतं क्रतवो यस्य तस्य-शतक्रतोः = इन्द्रस्य / अवध्यः = वरविशेषप्रभावादवध्यः। किलेति प्रसिद्धौ / तस्य = दानवगणस्य / रणशिरसि = युद्धाङ्गणे / त्वं निहन्ता त्वमेव विजेता / स्मृतः= देवैश्चिन्तितः / यतः-निशाया इदं-नैशं = रात्रिसम्बन्धि, यत्-तिमिरम् = तमः / उच्छेत्त = दूरीकर्ते / सप्त सप्तयोऽश्वा यस्यासौ-सप्तसप्तिः = सूर्यः। 'हयसैन्धवसप्तयः' इत्यमरः / न प्रभवति = न समर्थः / तत्-नैशं = निशासम्बन्धि, तिमिरं = तमः / चन्द्रः = इन्दुरेव / अपाकरोति = नाशयति / ___यथा सूर्यस्य रात्रावन्धकारध्वंसे सामर्थ्य नास्ति, तत्र. तु चन्द्र एवोचितो ध्वान्त हन्ता, तथैवाऽतुलशक्तेरपि महेन्द्रस्याऽवध्यो दानवगणस्त्वयैव नाशनीय इति भावः / [ दृष्टान्तालङ्कारः / 'प्रहर्षिणी वृत्तम्' ] // 36 / / राजा--हाँ है, मैने नारदजी से उसके विषयमें पहिले से ही सुन रखा है। मातलि-वह 'दुर्जय' नामक दानवों का गण वरदान के प्रभाव से आपके मित्र भगवान् इन्द्र से तो अवध्य है। अतः उन दानवों को युद्ध में आप ही मार सकते हैं-ऐसा देवताओं का विश्वास है / क्यों कि-जिस रात्रि के अन्धकार को, सात घोड़ों के रथ पर चढ़ने वाले, भगवान् सूर्यनारायण भी दूर नहीं कर सकते हैं, उस रात्रि के अन्धकार को भगवान् चन्द्र ही दूर करते