________________ अभिज्ञानशाकुन्तलम्-- [प्रथमोराजा--यावदाश्रमवासिनः प्रत्यवेक्ष्य 'निवर्तिष्ये तावदाद्रपृष्ठाः क्रियन्तां वाजिनः। सूतः-यथाऽऽज्ञापयत्यायुष्मान् / ( इति निष्क्रान्तः ) / राजा-( परिक्रम्याऽवलोक्य च-) इदमाश्रमपदं, तावत् प्रविशामि / ( प्रविश्य, प्रवेष्टकेन निमित्तं सूचयित्वा-) अये ! शान्तमिदमाश्रमपदं, स्फुरति च बाहुः, कुतः फलमिहाऽस्य ? / अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र // 16 // आश्रमवासिनः-तापसान् , प्रत्यवेक्ष्य = दृष्ट्वा, यावत्-निवर्तिष्ये = निवयामि, तावत् = तावत्कालपर्यन्तम्, आर्द्र = शीतलं, पृष्ठम् = उपवेशनस्थानं येषान्ते आर्द्रपृष्ठाः = व्यपगतश्रमाः / कृतमर्दनचारणादियथोधितोपचारा इति यावत् / इति = इत्युक्त्वा / निष्क्रान्तः = सूतो रङ्गप्रदेशानिर्गतः। परिक्रम्य = किञ्चिच्चरणविन्यास कृत्वा, अबलोक्य = इतस्ततो विलोक्य / इदम्, आश्रम एव पदमाश्रमपदम् = आश्रमस्थानम् / 'वर्त्तते' इति शेषः / प्रविशामि तावत् = प्रविशामीत्यर्थः / 'तावदिति वाक्यालङ्कारे / प्रवेष्टकेन = बाहुना / दक्षिणेनेत्यर्थादेव / पुरुषदक्षाङ्गस्फुरणस्यैव शुभसूचकत्वात् / तदुक्त'वामेतरभुजस्पन्दो वरस्त्र लाभदायकः' इतिशकुनशास्त्रे / निमित्तं = शकुनं / 'निमित्तं हेतुलक्ष्मणोः' इत्यमरः / सूचयित्वा = नाटयित्वा / 'भुजबाहू प्रवेष्टा दो रित्यमरः / __ अये ! = अहो ! / शान्तमिति / इदमाश्रमपदं = पुरो विभाव्यमान राजा-जब तक मैं आश्रमवासियों के दर्शन करके आता हूं, तब तक तुम घोड़ों को, रथ से खोलकर, घास, चारा-पानी देकर इन्हें ताजा कर लो। सूत-जो आज्ञा महाराज की / (ऐसा कहकर सूत जाता है)। राजा-( थोड़ा चलकर, सामने की ओर देख कर ) यह आश्रम प्रदेश है, अच्छा, मैं इसमें प्रवेश करता हूँ। [आश्रम के द्वार में प्रवेश कर, दाहिनी भुजा का फड़कना सूचित करता हुआ-11 हैं ! यह आश्रम तो शान्ति का स्थान है, न कि शृङ्गार का / परन्तु मेरी दहिनी 1 'प्रत्यवेक्ष्याऽहमुपावर्ते' / 2 'तथा'। 3 'इदमाश्रमद्वारम् / यावत्प्रविशामि / (प्रविश्य, निमित्तं सूचयन् ) / 4 क्वचिन्न /