________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 39 सूतः-सर्वमुपपन्नम् / राजा-( स्तोकमन्तरं गत्वा-) आश्रमोश्रोधो माभूत्, तदिहैव रथं स्थापय, यावदवतरामि / सूतः--धृताः प्रग्रहाः, अवतरत्वायुष्मान् / राजा-( अवतीर्थ, आत्मानमवलोक्य च-) सूत ! विनीतवेषेण प्रवेष्टव्यानि तपोवनानि, तदिमानि तावद्ह्यन्तामाभरणानि, धनुश्च / (-इति सूतस्याऽर्पयति / सूतो-गृह्णाति ) / सर्व = भवदुक्तम् / आश्रमाभोग एवाय मत्यर्थः / स्तोकम् = अल्पम्, अन्तरम् = अभ्यन्तरम्, आश्रमस्य उपरोधः-आश्रमोपरोधः= आश्रममर्यादामङ्गः, शान्तिभङ्गः, मा भूत् , = मा भवतु, तत् = तस्मात्, इहैव = अस्मिन्नेवाश्रमवहिर्भागे, रथं स्थापय = व्यवस्थापय / यावत् = तावत्पर्यन्तं यावदहम् अवतरामि = रथादवरोहामि / प्रग्रहाः = रश्मयः, धृताः = आकृष्टाः / रथोऽवस्थित इति यावत् / आत्मानं = स्ववपुः, विनीतश्चासौ वेषश्च विनीतवेषः, तेन = अनुद्धतेन वेषेण / तपोवनानि = मुनीनां पवित्रा आश्रमाः / धनुः = कार्मुकम् / आमरणानि = भूषणानि / गृह्यन्ताम् = त्वया ग्राह्याणि, इति = इत्युक्त्वा. सूतस्य = सूताय, अर्पयति = ददाति / अत्र सम्बन्धसामान्यविवक्षायां षष्ठी / गृह्णाति = धनुराभरणानि चादत्ते सूतः। सूत-आपका तर्क सर्वथा युक्ति सङ्गत है। यह आश्रम का ही प्रदेश है। राजा--( कुछ दूर और चलकर ) सूत ! इस आश्रम की मर्यादा का भङ्ग न हो, इसलिए तुस रथ को यहीं रोक लो, जिससे मैं रथ से यहीं उतर जाऊं। सूत-महाराज ! घोड़ों की लगाम खींचकर मैंने रथ को खड़ा कर दिया है / श्रीमान् अब उतरें। राजा-( उतर कर, अपने वेश भूषा की ओर देखकर ) सूत ! आश्रम में विनीत ( सादे ) वेष से ही जाना उचित होता है, अतः मेरे इन आभूषणों व धनुष को तुम यहीं रख लो। [राजा-सूतको अपने आभूषण आदि देना है। सूत-उन्हें लेता है ] | 1 'तपोवननिवासिनामुप' / 2 एतावत्येव रथ स्थापय' / 3 कचिन्न / 4 'प्रवेश्यानि'।