________________ 376 अभिज्ञानशाकुन्तलम् [षष्ठोआतम्म हरिअपण्डुर ! जीविअ ! सत्तं वसन्तमासस्स / दिट्ठोऽसि चूदओरअ ! उदुमङ्गल तुमं पसाएमि // 2 // [आताम्र-हरित-पाण्डुर ! जीवित ! सत्यं वसन्तमासयोः।। दृष्टोऽसि चूतकोरक ! ऋतुमङ्गल! त्वां प्रसादयामि // 2 // आताम्रति / आताम्रश्चासौ हरितश्च, पाण्डुरश्च-तत्सम्बुद्धौ-हे आताम्रहरितपाण्डुर ! / आम्रो हि मुखे ईषद्रक्तः, अन्यत्र च किञ्चिद्धरितः, पाण्डुरवर्णश्च भवत्येव / वसन्तमासस्य = मधुमासस्य। पाठान्तरे-वसन्तमासयोश्च / सत्यं जीवित ! = वस्तुतः प्राणभूत ! / आम्राङ्कुगे हि सर्वातिशायिसौरभ्यो वसन्तमासस्य सर्वस्वायते / चूत कोरक = हे आम्रकोरक ! / 'कलिका कोरकः पुमान्' इत्यमरः / आम्रकोरकोऽत्र लक्षणया-चूतमञ्जरी / दृष्टोऽसि = त्वमस्माभिः प्रथममेव दृष्टोऽसि / अतः-ऋतुमङ्गल ! / ऋतोर्वसन्तस्य मङ्गलमिव मङ्गलं, तत्सम्बुद्धौ रूपमिदम् / हे वसन्ततसौभाग्य ! / आदावुद्भवान्मङ्गलत्वाऽऽरोप आम्रकोरके / त्वां प्रसादयामि = त्वां प्रणमामि / अनुकूलयामि वा / 'आतम्महरिअवेण्टं उस्ससि विअ वसन्तमासस्स / दिलु चूअङ्करअं छणमङ्गलं णिअच्छामि' // ['आताम्रहरितवृन्तमुच्चसितमिव वसन्तमासस्य / दृष्टं चूताङ्कुरकं क्षणमङ्गल्यं नियच्छामि' ]-इति पाठान्तरे तु वृन्त-फलमुखाऽग्रभागः, तद्वन्धनं च / उच्छसितमिव-प्राणसमं / क्षणे-उत्सवे / मङ्गल्यं-मङ्गलाशंसि। वसन्तोत्सवमङ्गलसूचकं / नियच्छामिनिश्चिनोमि / प्रणमामि, गृह्णामि वा- इत्यर्थः / [ उत्प्रेक्षा / 'गाथा' ] // 2 // ___ कुछ लाल रंग लिए हुए, हरे व पीले (जर्द ) रंग से शोभित, वसन्त मास के सच्चे जीवन स्वरूप, वसन्त ऋतु के मङ्गल रूप ( वसन्तऋतु के मङ्गलमय आगमन की सूचना देने वाले ) हे आम्र के कोरक ! (हे आम की मञ्जरि ! या हे आम की कलि ! ) तुम्हारा आज हमने पहिले पहल दर्शन किया है, अतः आपको प्रसन्न करने के लिए, मैं आपको प्रणाम करती हूँ // 2 // 1 वसन्तमासस्य' पा० /