________________ 374 अभिज्ञानशाकुन्तलम्- [षष्ठोसाधुजनस्याऽभिषेककालो भवेत्तावत्साम्प्रतमस्य राजर्वृत्तान्तं प्रत्यक्षीकरिष्यामि / ननु मेनकासम्बन्धेन शरीरभूतेदानी में शकुन्तला / तया च दुहितृनिमित्तं सन्दिष्टपूर्वाऽस्मि / ( समन्तादवलोक्य-) किन्नु खलु उपस्थितोत्सवेऽपि दिवसे निरुत्सवाऽऽरम्भमिव इदं राजकुलं दृश्यते / अस्ति मे विभवः सर्व प्रणिधानेन ज्ञातुम् / किन्तु सख्या मयाऽऽदरो अप्सरस्तीर्थे निवासः / 'सन्दिष्ट'मिति पाठे-कर्त्तव्यमित्यर्थः। यावत् = यावत्कालं / साधुजनस्य = धार्मिकलोकस्य / अभिषेककालः = स्नानसमयः / प्रातःकालः / 'भवतीति शेषः / धार्मिकजनस्नानसमयं-एकैकस्मिन् दिवसे प्रभातकाले एकै. कयाऽप्सरसा संनिहितयाऽप्सरस्तीर्थे स्थातव्यमिति हि नियमः / तत्राऽद्य मम पयोय आसीत् / स मयाऽनुष्ठितो यथावत् / इदानीं ततो लब्धोऽवकाश इति भावः / साम्प्रतम् = इदानीम् / वृत्तान्तं = समाचारं / प्रत्यक्षीकरिष्यामि % अनुभविष्यामि। ___ ननु-इति निश्चये / मेनकायाः सम्बन्धात् = मेनकाऽपत्यतया / शरीरभूता = शरीरतुल्या। नितरां प्रिया। तया च = मेनकया च / दुहितृनिमित्तं = स्वतनयार्थम्-( शकुन्तलार्थम् ) / पूर्व सन्टिष्टा-सन्दिष्टपूर्वा = दत्तसन्देशाऽस्मि / 'शकुन्तला-मनोविनोदाथै राज्ञो दुष्यन्तस्य वृत्तान्तस्त्वया विलोक्य तस्यै कथनीय' इति मेनकया स्वपुत्रीप्रेम्णा निवेदिताऽस्मीति भावः / समन्ताद्विलोक्याह-कि न्विति / उपस्थित उत्सवो यस्मिन् , तस्मिन्- उपस्थितोत्सवे = सन्निहितवसन्तमहोत्सवेऽपि / दिवसे = समये / उत्सवान्निर्गतः-निरुत्सवः, तथा आरम्भो यस्य तत्निरुत्सवाऽऽरम्भम् = उत्सवारम्भशून्यं / निर्व्यापारं / राजकुलं = राजगृहं / प्राणिधानेन = समाधिना। योगशक्त्या। ज्ञातुं विभवः = मम सामर्थ्यम् / यद्यप्यस्ति / तथापिसख्याः (मेनकायाः)शकुन्तलाया वा / आदरः आग्रहः। 'स्वचक्षुषैव सर्वेराजकुलवृत्तं (अप्सरा) के सम्बन्ध के कारण (मेनका की पुत्री होने से) शकुन्तला मुझे मेरे प्राणों से भी बढ़कर प्यारी है / मेनका ने भी अपनी पुत्री के प्रसन्नतार्थ यहाँ का हाल कहने के लिए मुझे पहिले से ही कह रखा है / इसी लिए तो यहाँ से मेनका दुःखी शकुन्तला को उठाकर ले गई थी। ( चारों ओर देखकर-) इस समय वसन्तोत्सव के उपस्थित होने पर भी यह राजकुल उत्सव के आरम्भ (तैयारी) से विमुख क्यों हो रहा है ? अर्थात्- उत्सव मनाने की तैयारियाँ यहाँ क्यों नहीं दिखाई दे रही हैं ? / यद्यपि मैं समाधि एवं ध्यान आदि के बल से