________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् शारिवः- ( साऽसूर्य-) श्रुतं भवद्भिरधरोत्तरम् ? / आ जन्मनः शाठ्यमशिक्षितो य स्तस्याऽप्रमाणं वचनं जनस्य ! / 'पराऽतिसन्धानमधीयते ये विद्येति, ते सन्तु किलाऽऽप्तवाचः ! // 28 // साऽसूर्य = सेय॑म् / 'आह / सभ्यान् प्रतीति शेषः। 'असूया, दोषारोपो' गुणेष्वपि'-इत्यमरः / भवद्भिः = सभ्यैः। परिवार-पुरोहितादिभिः। अधरश्चोत्तरञ्चाऽनयोः समाहारः-अधरोत्तरम् = उत्तरप्रत्युत्तरम् / द्वयोरालाप इति यावत् / अधरञ्च तदुत्तरञ्चेति विगृह्य--'क्षुद्रमुत्तर मिति, क्षुद्रस्य उत्तरमिति वा केचनार्थे वर्णयान्त / ___ असूयामेव विवृणोति-आ जन्मन इति / यो जनः = शकुन्तलादिलक्षणः / आ जन्मनः = जन्मप्रभृति / शाठ्य = परवञ्चनाचातुर्यम् / अशिक्षितः= अबोधितः। अनध्यापितः / दुष्टादिसंसर्गाऽभावादनुपदिष्टः / तस्य जनस्य = प्रकृते शकुन्तलाया, अस्माकञ्च / वचनं = वाक्यन्तु / अप्रमाणम् = अप्रामाणिकम् / यैः पुनः-यैः =. राजादिभिः / प्रकृते-दुष्यन्तेन / परातिसन्धान = परवञ्चनमेव / विद्येति = विद्यारूपत्वेन / राजनीतितया / कलाभावेन च / अधीयते = पठ्यते / ते-आप्ता वाग् येषान्ते-आप्तवाचः = सत्यभाषिणः / प्रामाणिकाः / सन्तु किल = भवन्तु नाम ! / अंत्र 'शकुन्तलावचोऽप्रमाणं, दुष्यन्तोक्तं तु सत्यमिति-अहो ! प्रमाणप्रमेयभावव्यवस्थाऽत्र राज्ञ इत्यसूया प्रकटीकृता। [ अप्रस्तुतप्रशंसा / रूपकानुप्रासौ / शारिव-( असूया-पूर्वक राजा को हेय दृष्टि से देखता हुआ सबसे-) आप लोगों ने इस राजा की ऊँची-नीची (धूर्तता भरी चलती-फिरती सब ) बातें सुनी!। __जो लोग जन्म से ही छल-कपट से बिलकुल अपरिचित हैं, उनकी ( हम तपस्वियों की, एवं इस भोली-भाली शकुन्तला की ) बात तो अप्रमाणिक है, झूठी है, और जो दूसरों को ठगने को, छल और कपट को ही एक कला, एक विद्या (राजनीति) समझकर रात दिन उसका ही अभ्यास किया करते हैं, रात-दिन छल 1 'अभिसन्धानं'।