________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् देत:-पश्यैनं व्यापाद्यम् / (राजा-शरसन्धानं नाटयति ) " (नेपथ्ये-) भो भो राजन् ! आश्रममृगोऽयं, न हन्तव्यो, न हन्तव्यः / सूतः-( आकर्ष्याऽवलोक्य च-) आयुष्मन् ! अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्याऽन्तरायौ (द्वौ ) तपस्विनौ संवृत्तौ !! / व्यापाद्यम् = वध्यमृगम् / नाटयति = अनुकरोति / नेपथ्ये इति / कविवचनमेतत् / अप्रविष्टेनैव यज्जवनिकान्तरस्थेन कथ्यते तत्-'नेपथ्ये'-इत्युच्यते / अन्तरसन्धिरय, प्रकृतार्थसूचनात् / तदुक्तं मातृगुप्ताचार्यैः 'स्वप्नो, दूतश्च, लेखश्च, नेपथ्योक्तिस्तथैव च / आकाशवचनं चेति ज्ञेया ह्यन्तरसन्धयः // ' इति / राजनिति / 'राजनित्यषिभिर्वाच्य' इति . भरतोक्तेर्दुष्यन्तसम्बोधनमेतत् / आश्रमस्य मृगः-आश्रममृगः = आश्रमवासिमुनिजनपालितोऽयं हरिणः / आकर्ण्य = श्रुत्वा, अवलोक्य = दृष्ट्वा च / बाणस्य यः पातस्तस्य यः पन्थान्तस्मिन् वर्त्तते तच्छील:-बाणपातपथवर्ती,-तस्य-नाणपातपथवर्तिनः = अतिनिकटवर्तिनः, कृष्णसारस्य = कृष्णमृगस्याऽस्य, तपस्विनौ = तापसौ, अन्तरायौ = बाणपातविघ्नौ, सूत-लीजिए, यह आपकी शिकार (मृग) अब यह सामने है। [राजा-धनुष पर बाण चढ़ाकर निशाना साधता है / [नेपथ्य में -] ( पर्दे के पीछे से जो बात कही जाए उसे 'नेपथ्य' में कही हुई कहते हैं)। हे राजन् ! यह आश्रम का मृग है। यह अवध्य है, आपके मारने योग्य नहीं है / अतः आप इसे मत मारिए। सूत-(सुनकर और सामने देखकर-) महाराज! आपके बाण की मारके 1 'राजा-सूत !' 2 'व्यापाद्यमानं। 3 'इति शरसन्धानं नाटयति।... 4 'स्यान्तरे तपस्विन उपस्थिताः' / 'स्यान्तरा' / 5 काचित्कः पाठः।