________________ 304 अभिज्ञानशाकुन्तलम्- [पञ्चमोविदषकः-भो वअस्स! किं दाव से गीदिआए अवि गहीदो भभदा अक्खरत्थो ? / [भो वयस्य ! किं तावदस्या गीतिकाया अपि गृहीतो भवताऽक्षरार्थः ? ] / राजा-( सस्मित-) 'सकृत्कृतप्रणयोऽयं जन' इत्यक्षरार्थः / तदहं देवीं हंसर्वतोमन्तरेण उपालम्भनमागतोऽस्मि / सखे ! माधव्य ! मद्वचनादुच्यतां देवी हंसवती,-'सम्यगुपालब्धोऽस्मीति ! रागा-ऽनुराग-बहुला / अनुरागरसप्रस्यन्दिनी / गीति:= गानभेदः / गीतिनामकश्छन्दोभेदश्च / जलस्य यथा सरोवर आधारस्तथा रसस्य गीतिराधारः / सरोवरे जलमधिकं सद्यथा ततः प्रवह ति, तथाऽस्यामपि गीतौ मातुमसमर्थो रागोऽनुरागश्च ततो बहिरपि परिवहतीत्याशयः / अहो रसाऽऽविला गीतिरिति भावः / किं तावदिति / अक्षरार्थः = वाक्यार्थः / अपिगृहीतः = किमु ज्ञातो भवता / अस्या गीतेराशयोऽपि भवताऽवगतः किमित्याशयः प्रश्नस्य / सकृत् = एकवारं / कृतः प्रणयो यस्मिन्नसौ-कृतप्रणयः = कृतस्नेहः / अयं जनः = हसवतीलक्षणः / यद्वा-कृतः प्रणयो येनासौ तथा / अयं जनः = अयं दुष्यन्तः / अन्तरेण = विना / 'अहं स्थित' इति शेषः / 'एकवारमुपभुज्य नवयौवनोद्भेदवतीमिमां. हंसवतीं, साम्प्रतं त्यक्तवानस्मीति तस्या उपालम्भस्य सम्प्रति गोचरीभूतोऽस्मीति भावः / 'हंसपदी' त्यपि कचिन्नाम दृश्यते / विदूषक-हे मित्र ! आपने इस गीति के अर्थ पर भी कुछ ध्यान दिया ? / राजा-(हँस कर ) हमने कभी इससे प्रेम-अनुराग किया था, इसके नए यौवन का आनन्द हमने पहिले लिया था, अब हम उसे भूल गए हैं -- यही इन अक्षरों का अर्थ है / अब हम इस हँसवती से दूर ही रहते हैं, इसी लिए हमको यह भ्रमर के नाम (व्याज) से उलहना दिया जा रहा है / अतः हे सखे माधव्य ! ( मधुपुरी वास्तव्य चौबेजी !) मेरी ओर से तुम जाकर देवी (रानी) हंसवती से कहो, कि-वाह ! तुमने तो खूब (ठीक) ही उलहना हमें दिया!। 1 'तदस्या देवी वसुमतीमन्तरेण महदुपालम्भमवगतोऽस्मि' इति, 'तदस्या देवी हंसपदीमन्तरेण' इति च पा० /