________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 301 (नेपथ्ये-वीणाशब्दः ) / विदषका -( कर्ण दत्त्वा-) भो वअस्स ! सङ्गीदसालब्भन्तरे कण्णं देहि / कलविशुद्धाए गीताए सलसंजोओ सुणीअदि / जाणे तत्थभोदी हंसवदी वण्णपरिच करेदि त्ति / [( कर्ण दत्वा-) भो वयस्य ! सङ्गीतशालाभ्यन्तरे कणं देहि, कलविशुद्धाया गीते: स्वरसंयोगः श्रूयते / जाने 'तत्रभवती हंसवती वर्णपरिचयं करोती ति] __ आसनस्य परिग्रहः = स्वीकारः / नेपथ्ये = जवनिकाभ्यन्तरम् / वीणाशब्दः = वीणावादनध्वनिः / उत्थित इति, भवतीति वा शेषः। 'गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतमुच्यते' इत्युक्तलक्षणं सङ्गीतं / तद्यस्यां शालायां भवति सा-सङ्गीतशाला / तस्या अभ्यन्तरं, तस्मिन्-सङ्गीतशालाभ्य. न्तरे = अन्तःपुरसङ्गीतविद्याशालायां / कर्ण देहि = सावधानतया शृणु / रागाद्याश्रयः सन्दर्भविशेषो गीतिः। तस्याश्च कलविशुद्धत्वं विशेषणं / 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे' इत्यमरोक्ताऽव्यक्त मधुरस्वरात्मिका काकली-'कल' इत्युच्यते / विशुद्धा च पञ्चसु गीतिभेदेषु शुद्धा-भिन्ना-गौडी-वेसरासाधारण्याख्येषु-प्रथमा गीतिः। तल्लक्षणञ्च–'विशुद्धा स्यादवललितस्वरैः इति सङ्गीतरत्नाकरे / इत्थञ्च-'कलायाः = अव्यक्तमधुरायाः / किञ्च विशुद्धायाः = अवकललितस्वरग्रथितायाः। गीतेः = गीतिविशेषस्य / स्वरसंयोगः = स्वरालापः श्रयते' इत्यर्थो बोध्यः / ताललयशुद्धाया वीणायाः' इति पाठान्तरे-तालेन = कोलक्रियामानेन / लयेन = गीतवाद्यस्वरसाम्येन च / शुद्धायाः = निर्दोषायाः / वोणायाः = वल्लक्याः / स्वरसंयोगः = निषादादिभिः स्वरैः सम्यग्योजना-इत्यर्थो बोध्यः / जाने = अवगच्छामि / हंसवती = तन्नाम्नी भवतां भोगिनी कापि ललना / वर्णपरिचयं = स्थाय्यारोह्यावरोह्यसंचारिभेदभिन्नगानक्रियायाः 'सारीगमपधनी' त्यादिरीत्या अभ्यासम् / 'गानक्रियोच्यते वणेः, स चतुधो निरूपित / स्थाय्यारोह्यावरोही च, सञ्चारी चेति रत्नाकरोक्तेः / [नेपथ्य में ( पर्दे के पीछे से )-वीणा एवं गीत का शब्द सुनाई देता है ] / .विदूषक-( कान लगाकर सुनता हुआ ) हे सखे ! सङ्गीत शाला के भीतर तो जरा आप कान लगाकर सुनिए। देखिए मधुर और मीठी सुरीली .. 1 'ताललअशुद्धाए' [ ताललयशुद्धायाः ] / 2 'वीणाए' [ वाणायाः ] /