________________ अथ पञ्चमोऽङ्कः / (ततः प्रविशति कञ्चुकी)। कञ्चुकी-(निःश्वस्य) अहो बत कीदृशीं वयोऽवस्थामापन्नोऽस्मि!। 'आचार' इत्यधिकृतेने मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः। * अभिनवराजलक्ष्मीः * कञ्चको-वारबाणोऽस्यास्तीति-कञ्चुकी = सौविदल्लः / 'कञ्चको वारबाणोऽस्त्री'त्यमरः / तल्लक्षणञ्चोक्तं मातृगुप्ताचायः 'ये नित्यं सत्यसम्पन्नाः, कामदोषविवर्जिताः / ज्ञानविज्ञानकुशलाः कञ्चकोयास्तु ते स्मृताः / ' इति / 'अन्तःपुरचरो, वृद्धो, विप्रो, गुणगणान्वितः / सर्वकार्यार्थकुशल: 'कञ्चुको त्यभिधीयते / ' इति च / 'जरावैक्लव्ययुक्तेन विशेद्द्वात्रेण कञ्चुको / ' इति च / 'विदुषां संस्कृतभाषा मन्त्रि-कश्चुकिनामपि'-इत्युक्तेरत्र संस्कृतभाषा चाऽस्य प्रयुज्यते / 'अहो' इत्याश्चर्ये / 'बते'ति खेदे / , कीदृशीं = पूर्वाननुभूतां, विसदृशीम् / वयःकृतामवस्थां-वयोऽवस्थां = वार्धक्यकृतां दशाम् / विडम्बनाम् / आपन्नः = प्रातः / तां विडम्बनामेवाहआचार इति / राज्ञः = दुष्यन्तस्य / अवरोधगृहेषु = अन्तःपुरगृहेषु / अधि * अथ पञ्चम अङ्क * [ लम्बा चोगा = अचकन पहिने हुए, कन्चुकी = राजा के अन्तःपुर के वृद्ध दर्बारी अफसर का प्रवेश]। कचुकी-(लम्बा श्वास लेकर) ओह !आजकल अग्नी वृद्ध अवस्थासे कैसीदशा 1 क्वाचित्कः पाठः / 2 'अवहितेन /