________________ 286 अभिज्ञानशाकुन्तलम् [चतुर्थो[( भूयः पितुरङ्कमाश्लिष्य, आश्रमाभिमुखीभूय च-) तात ! कदा नु खलु भूयस्तपोवनं प्रेक्षिष्ये ? / कण्वः -वत्से ! भूत्वा चिराय सदिगन्तमहीसपत्नी, दौष्यन्तिमप्रतिरथं तनयं प्रस्य / तत्संनिवेशितधुरेण सहैव भा, शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् // 22 // आरूढः। 'युगान्तर मिति पाठे-युगान्तरं = 'युगं हस्तचतुष्केऽपी'ति विश्वाद्धस्तचतुष्टयपरिमितं गगनप्रदेशम् / दिनस्यैकः प्रहरो जात इत्याशयः / त्वरय = स्वरया विसृज / गमने त्वरा कत्तं प्रेरयेति यावत् / भूयः = पुनरपि / भूत्वेपि / चिराय = बहुवेलं / दिगन्तैः सहिताया मह्याः = धरित्र्याः / सपत्नी = समानभर्तृका। भूत्वा = चतुरुदधिपर्यन्तभूभागपालकस्य पत्युः प्रिया भूत्वा / अप्रतिरथं = जगदेकवीरं / दौष्यन्ति = दुष्यन्तस्यापत्यं भरतनामकं / तनयं = पुत्रं च / प्रसूय = उत्पाद्य / तस्मिन् संनिवेशिता धूर्यनासौ, तेन = तत्संनिवेशितधुरेण = दौष्यन्तिभरतनिवेशितराज्यभारेण / भर्ना = पत्या दुष्यन्तेन सहैव / शान्ते = पवित्रे / अस्मिन् आश्रमे = अस्मिन् तपोवने / पुनः = पुनरपि / पदम् = आगमनं / स्थितिं वा / करिष्यसि = विधास्यसि / वानप्रस्थाश्रमयोग्ये कालेऽत्राऽऽगमिष्यसीत्याशयः / 'पदं व्यवसितत्राणस्थानलक्ष्माधिवस्तुषु' इत्यमरः / [ मालादीपकम् ] // 22 // आश्रम की ओर देखकर- ) हे तात ! अब मैं इस तपोवन को फिर कब देखूगी ? / और मुझे आप यहाँ कब बुलाओगे? / कण्व-हे पुत्रि! तूं-बहुत समय तक दशों दिशाओं से युक्त सागर पर्यन्त पृथ्वी की सपत्नी होकर, (चक्रवती दुष्यन्त की पट रानी होकर ), तथा नानाविध राज्य सुखों का उपभोग करके, तथा असमान योद्धा-जगत्प्रसिद्ध वीर पुत्र भरत को जन्म देकर, उसके ऊपर राज्य का भार देकर, अपने पति के साथ वृद्ध अवस्था में इस शान्त तपोवन में फिर आयेगी (इस आश्रम में पुनः पैर रखेगी) // 22 //