________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् राजा---( सस्मितम्--) . अपराधमिमं ततः सहिष्ये, यदि रम्भोरु ! तवाऽङ्गसङ्गमृष्टे / कुसुमास्तरणे क्लमापहेऽत्र स्वजनत्वादनुमन्यसेऽवकाशम् // 24 // प्रियंवदा-( सोपहासम्-) णं एत्तिकेण उग्ण तुटो भविस्सदि ? / [( सोपहासम्-) नन्वेतावता पुनस्तुष्टो भविष्यति ? ] / शकुन्तला--( सरोषमिव-) विरम विरम दुन्त्रिणोदे ! एतावदवत्थं गदाए मए कीलसि ? / अपराधमिति / रम्भे इत्र ऊरू यस्याः सा-रम्भोरूः / तत्सम्बोधनं-हे. कदलीकाण्डशीतपृथुलतरोरु इत्यर्थः / इमं = त्वत्कृतमेनम् / अपराधम् = अविनयं / ततः = तदैव / सहिध्ये = क्षमिष्ये / यदि = यदा। तव-अङ्गानां सङ्गेन मृष्टे-अङ्गसङ्गमृष्टे = अङ्गसंसर्गपरिम्लाने / अत एव क्लममपहन्ति तस्मिन् क्लमापहे = मम क्लान्तिहरे। तव = भवत्याः। अत्र = अस्मिन् / कुसुमानामास्तरणेपुष्पशयनीये। स्वजनस्य भावस्तत्त्वं, तस्मात्-स्वजनत्वात् = आत्मोयबुद्धया / अवकाशम् = मदवस्थानम् / अनुमन्यसे = त्वं स्वीकुरुषे चेत् / / यदि स्वशयनीये मामपि स्थापयसि, तदा क्षमिष्ये तवापराधमित्याशयः [ 'रम्भोरु पदे उपमा / 'स्वदङ्गसंसर्गालमापहे'–इत्यत्र मदार्थहेतुकं काव्यलिङ्गम् / प्रगमनं नाम प्रतिमुखमन्ध्यङ्गम् / 'स्वागत'मित्यारभ्यैतदन्तमुत्तरप्रत्युत्तरभावस्य सत्त्वात् / 'उत्तरोत्तरवाक्यन्तु भवेत्प्रगमनं पुनः' इत्युक्तेः / औपच्छन्दसिकं च वृत्तम् ] // 24 // एतावन्मात्रेण = शय्योपान्तनिवेशमात्रेण / तुष्टः = कृतार्थः। किं मोदक राजा-(हंसकर ) हे रम्भोरु ! तुमारे इस अपराध को मैं तभो क्षमा करूंगा, जब तुम अपने अङ्गों के सम्पर्क से मुरझाये हुए इस कुसुम-शयन (फूलों की सेज) पर अपना ही समझ कर-मुझे भी बैठने को अनुमति दोगो // 24 // प्रियंवदा-( हंसी उड़ाती हुई ) बस, इतने से हो (इसकी सेज पर एक साथ बैठने मात्र से ही ) क्या आप सन्तुष्ट हो जाएंगे। शकुन्तला--(कुछ बनावटी क्रोध के साथ ) अरी दुर्विनीते ! ( ढीठ !)