________________ 184 अभिज्ञानशाकुन्तलम्- [तृतीयो[तव नजाने हृदयं, मम पुनमंदनो दिवाऽपि, रात्रिमपि / निष्कृप ! तापयति बलीयस्तव हस्तै-मनोरथान्यङ्गानि // 19 // ] तवेति / निष्कृप ! = हे निर्दय ! तव हृदयं न जाने = तव हृदये को भाव इति नाऽहं वेद्मि / तव कीदृशी दशेति च न जानामि / पुनः = किन्तु / तव हस्तमनोरथानि = त्वदधीनसुखाभिलाषाणि / त्वय्यासक्तानि / पाठान्तरे तु-- त्वयि = भवद्विषये। वृत्ता = जाता मनोरथा येषान्तानि-वृत्तमनोरथानि = जाताऽभिलाषाणि / भवदालिङ्गनादिकमीहमानानि / मे = मम / अङ्गानि = अवयवांस्तु / मदनः = मन्मथः / दिवाऽपि = अहन्यपि / रात्रावपि = रजन्यामपि / 'रात्रिमपी'ति पाठे कालाध्वनोरिति द्वितीया / बलीयः = अत्यर्थं / क्रियाविशेषणमेतत् / तापयति = सन्तापयति / यद्वा-तव हृदयं = गोपुरकपाटायमानं, रिपुंशरकोटिभिरप्यभेद्यमरः-स्थलं, न जाने इति न = किन्तु जान एव, आप्तः श्रवणात् / अत एव मेऽङ्गानि सर्वाण्यपि कामो दिवानिशं तापयति, तव तु वक्षोमात्रमपि न तापयति, कथमन्यथा निदाघेऽपि शीतलतरम कुचयुगल-परिरम्भणाय भवान्नागच्छति / इत्थं च तादृशं तव वक्ष आलिङ्गिनुमिच्छामीत्यर्थो बोध्यः / अनुमानमलङ्कारोऽत्रार्थे / यद्वा हृद्-अयमिति च्छित्वा-अयं जनस्तव हृत् = हृदयमिति रूपकं बोध्यम् / 'कामः पुनर्ममाङ्गान्यपि यत्तापयति, तन्न जाने' इति प्रश्नकाकुः / वृथैव तापयतीत्यर्थः। यद्वा-अयं जनस्तव हृत् = हृदयरूप इति त्वत्कान्तिजितेन कामेन पीड्यत इति, तदहं न जान इति न-किन्तु जान एव / त्वां कठोरत्वार्य डयितुमशक्तः कामो मां दहतीत्याशयः / प्रत्यनीकालङ्कारः / इत्येवमादयोऽत्र नानाविधा अर्था श्रीराघवभट्टैरुट्टङ्किता विस्तरभयान्नात्र लिख्यन्ते / ___ 'निष्कृपे'त्युक्ते वज्रनामकप्रतिमुखसन्ध्यङ्गं दर्शितं, 'विरूक्षवचनं यत्त वज्रमित्यभिधीयते' इत्युक्तेः। [अत्र काव्यालिङ्गानुप्रामरूपकममासोक्त्यादयो बहवो. ऽलङ्काराः सन्ति, ते निपुणं स्वयं निर्णेयाः / आर्या ] // 19 // __ हे निर्दय ! हे प्राणप्यारे ! तुमारे हृदय की क्या दशा है, यह तो मुझे मालूम नहीं है, पर मेरे तो सम्पूर्ण अङ्गों को ( शरीर को) जिनका सुख तुमारे हाथ है और जिनकी भावना तुमारे में लगी हुई है, मदन (कामदेव) दिन रात प्रबल वेग से जला रहा है // 19 // 1. 'स्वयि वृत्त।