________________ 148 अभिज्ञानशाकुन्तलम्- [द्वितीयोपरिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः॥ 19 // .. विदूषकः-एवण्णेदं ! / [एवमेतत् !] / राजा--माधव्य ! त्वमपि स्वनियोगमनुतिष्ठ / अहमपि तपोवन मन्मथो यस्यासौ = अज्ञातकामकथः / मृगाणां शावैः सह = हरिणशिशुभिः सह / परिवर्द्धितः = पालितः। जनः= शकुन्तलारूपः / क ? / महदन्तरमेतत् / अतो नास्माकमीशे तापसबालिकानुरागरूपेऽनुचिते कर्मणि कथमपि प्रवृत्तिः सम्भाव्यते-इत्याशयः / 'मृगशावैः सह परिवद्धित' इत्यनेन मौग्ध्यातिशयः, वैदग्ध्याऽभावः, कामकलाज्ञानशून्यता च सूचिता / अतः-सखे != हे मित्र! परिहासेन = उपहासेन / विजल्पितम् = मया पूर्व मुक्तं / वचः = वाक्यं / परमार्थेन = तत्त्वतः। "सत्यमेतदिति / न गृह्यताम् = नैव त्वया मन्यतां / नैव खलु तथ्यमेवेदमिति विभाव्यताम् / एतेन-शकुन्तलानुरागादिवर्णनं सर्वे मत्कृतं काल्पनिकमासीदित्याशयः / [ एवञ्च 'संवृतिः स्वयमुक्तस्य स्वयं प्रच्छादनं भवेदिति दर्पणोक्तं संवृतिर्नाम मुखसन्ध्यङ्गं प्रदर्शितं वेदितव्यम् / विषमोऽलङ्कारः ] // 19 // एवमेतत् = सत्यमाह भवान् / यद्वा 'एवमेतदिति काकुः / ( अच्छा ! क्या ऐसी बात है ! ) / स्वस्य नियोगः = कार्यम् / राजधानीगमनलक्षणम् / भला हमारा इनका क्या जोड़ा / अतः हे सखे ! हमने तो हँसी 2 में ही तुमसे शकुन्तला के बारे में यों ही गढ़कर बातें कह दी थीं, उन्हें तुम सच्ची मत समझ लेना। यह तो केवल एक विनोदमात्र ही था। इसमें सचाई कुछ नहीं है। विदूषक-अच्छा ! ऐसी बात है ! / आपने हमसे यह सब हँसी में ही कहा था / अच्छा तो ठीक है। राजा-सखे माधव्य ! तुम भी हमारे कहे अनुसार नगर में जाकर माताओं