________________ अभिज्ञानशाकुन्तलम्- [द्वितीयोअस्यापि यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो ‘मुनि'रिति मुहुः, केवलं राजपूर्वः // 15 // द्वितीयः-सखे ! अयं स बलभित्सखो दुष्यन्तः ? / प्रथमः -अथ किम् / श्रयणीये / आश्रमे = गृहस्थाश्रमे / वसतिरध्याक्रान्ता = वासो विधीयते / मुनिभिरपि सर्वैश्छात्रातिथ्यादिभिराश्रयणीये तपोवने आश्रमपदे निवासो विधीयते / रक्षायाः = सर्वभूतपरिरक्षणस्य, प्रजापालनस्य-योगात् = समनुष्ठानायासात् / अयमपि = अयं राजाऽपि / न केवलं मुनय एव, किन्त्वयमपि / प्रत्यहं = प्रतिदिनं / तपः = पुण्यं / सञ्चिनोति = अर्जयत्येव / मुनयो हि-रक्षाऽर्थम् = इन्द्रियान्तःकरणादिनियन्त्रणार्थं / योगात् = समाध्यादितः तपोऽर्जयन्ति / वशिनः = इन्द्रियविजयिनः / अस्याऽपि = दुष्यन्तस्यापि / न केवलं मुनीनामेव / मुहुः = भृशं / चारणानां द्वन्द्वैर्गीत:-चारणमिथुनगीयमानः / पुण्यः = पवित्रः। केवलं राजपूर्वः = केवलं राजशब्दविशिष्टः। मुनिरिति शब्दः = राजर्षिरिति शब्दः। द्यां = स्वर्ग / गगनञ्च / स्पृशति = व्याप्नोति / / व्यतिरेकालङ्कारः, उपमानादुपमेयस्येषन्यूनताया वर्णनात् / श्लेषश्च ] // 15 // . __बलभिदः सखा-बलभित्सखः = वासवमित्रम् / 'बलभिद्वज्री वासवो वृत्रहा वृषे'त्यमरः / अयं सः = इन्द्रमित्रतया प्रसिद्धो दुष्यन्तः किमयमेवेति प्रश्नाशयः / अथ किमित्युत्तरम् / 'अयमेवे'त्युत्तरवाक्यार्थः / (गृहस्थाश्रम में ) निवास करता है। और प्रजा की उचित रक्षा करके यह भी प्रतिदिन तप का सञ्चय करता है, अपना पुण्य तथा तप बढ़ाता है / और इंद्रियविजयी, धार्मिक इस राजा का पुण्यकीर्तिवाला, चारण मिथुनों द्वारा गाया जाता हुआ, 'राज' पूर्वक 'मुनि' यह नाम स्वर्ग तक छा रहा है। अर्थात् इसे स्वर्ग में भी देवतागण राजमुनि = राजर्षि इस नाम से स्मरण करते हैं। अतः यह भी तपस्वी मुनियों की ही तरह परोपकार परायण होने से 'राजर्षि' नाम से जगत् में प्रसिद्ध हो रहा है // 15 // दूसरा ऋषिकुमार-सखे ! क्या बल नामक असुर के मारने वाले भगवान् इन्द्र के मित्र राजा दुष्यन्त यही हैं ? / पहला-और क्या / अर्थात्-हाँ, यही तो हैं /