________________ 131 ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् [किं दृष्टमात्रेणेव भवतोऽङ्कमारोहतु ?] / राजा-( विहस्य ) सखीभ्यां मिथः प्रस्थाने पुनः सलीलया तत्रभवत्या मयि भूयिष्ठमाविष्कृतो भावः / तथा हि 'दर्भाङ्कुरेण चरणः क्षत' इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा / आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वन्कलमसक्तमपि द्रुमाणाम् // 13 // दृष्टमात्रेणेव = अवलोकनादेव / अङ्कमारोहतु = त्वामभिसरतु / शनैः शनैः सर्व भविष्यतीति भावः / सखीभ्यां = सख भ्यां सह / प्रस्थाने = गमने। सलालया = लीलाऽश्चितलोललोचनया। मिथः = रहसि / 'मियोऽन्योऽन्य रहस्यपी'त्यमरः / भूयिष्ठ = बहुलम् / आविष्कृतः = प्रकटितः। भावः = चित्तानुरागः। सख्यारग्रे एव गमनाद्र हस्यलाभः। दर्भेति / तन्वी = कृशतनुः / शकुन्तला / कतिचिदेव पदानि = किञ्चिद्रं / गत्वा = चलित्वा / दर्भस्याङ्कुरेण-दमाङ्कुरेण = कुशाग्रसूचिकया / चरणः = मम पादः / क्षतः = बिद्धः। इति = इत्युक्त्वा / अकाण्डे = अनवसरे एव / 'काण्ड चावसरे, बाणे' इति धरणिः / कुशाग्रेण चरणक्षनाऽभावेऽपि / स्थिता= विलम्बितगमनाऽभूत् / च = किञ्च / द्रुमागां = तरूणां / शाखासु = विटपेषु / असक्तमपि = असंलग्नमपि / वल्कल = वल्कलवसनं / विवृत्तं वदनं यस्याः, सा-विवृत्तवदना = पराचीनमुखी / मत्संमुखीनेति यावत् / विमोचयन्ती = विश्लेषयन्तीव / आसीत् = स्थिता। कुशसूचीव्यधनाऽभावेऽपि तथ्याजेन, वल्कलस्य शाखास्वनासक्तस्यापि विमोचनच्छलेन च रुद्धगमना स्वाशयं स्पष्टमेव प्रकटितवतीति भावः / 'विलम्बश्च राजा-(हंसकर) हेसखे ! सखियों के साथ वहाँ से जाते समय तो उसने (शकुन्तला ने ) बड़े ही हाव भाद कटाक्ष पूर्वक मेरे प्रति अपना प्रेमभाव प्रकट किया था। जैसे-'हे सखियो ! मेरा पैर दर्भ के अंकुर ( जड़ के तीखे भग्रभाग से घायल हो गया है' इस बहाने से वह कृशाङ्गी मेरे ही वास्ते कुछ देर वहाँ ठहर गई। और शाखाओं में नहीं अटके ( नहीं फंसे ) हुए भी 1 अयं पाठः कचिन्न /